________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६०२
चरक-संहिता। [ दन्तीद्रवन्तीवरया मोदको वास्य कल्पेन कार्यास्तच विरेचनम् । तयोर्वापि कषायेण मद्यमस्योपकल्पयेत् ॥ १२ ॥ दन्तीकषायेणालोड्य दन्तोतैलेन साधितान् । गुड़लावणिकान् भक्ष्यान् विविधान् भक्षयेन्नरः ॥ १३ ॥ दन्तीद्रवन्तीमरिचं यमानोमुपकुञ्चिकाम् । नागरं हेमदुग्धञ्च चित्रकञ्चेति चूर्णितम् ॥ सप्ताहं भावयेन्मूत्रे गवां पाणितलं ततः। पिबेद घृतेन चूर्णन्तु विरिक्तश्चापि तर्पणम् ॥ सर्वरोगहरं मुख्यं सर्वेष्वृतुषु यौगिकम् । चूर्ण तदनपायित्वाद् बालवृद्धेषु पूजितम् ॥ दुर्भक्ताजीर्णपार्ति -गुल्मप्लीहोदरेषु च ।
गण्डमालास्त्रवाते च पाण्डुरोगे च शस्यते ॥१४॥ भागाः सिताया द्वौ भागौ गोधूमचूर्णानामेको भाग इत्येतत् सर्चमेकीकृत्य पक्त्या उत्कारिका कार्या। इत्येकः ॥ ११ ॥
गङ्गाधरः-मोदक इत्यादि। मोदको वास्य कल्पेन कार्य्यः । तद्यथातत्कषायात् त्रयो भागाः सिताया द्वौ भागौ गोधूमचूर्णस्यको भागः, एतत् सव्वमेकीकृत्य पक्त्वा मोदकः कार्य इत्येकः। तयोरित्यादि। तयोर्दन्तीद्रवन्तीमूलयोः कषायेण मद्यमुपकल्पयेत् । तद् यथा-दन्तीद्रवन्त्योमूलं कुट्टयिखा सुरामण्डे स्थापयेत्, जातं तदासुतं पिबेत् । इत्येकः ॥१२॥
गङ्गाधरः-दन्तीकषायेणेत्यादि। दन्तीमूलकपायेण महितान् दन्तीतेलेन साधितान् गुहलावणिकान् गुड़लवणयुक्तान् पूपपिष्टकादीन् भक्ष्यांश्च विविधान् भक्षयेत् । इत्येकः ॥१३॥
गङ्गाधरः-दन्तीत्यादि। यमानीमूलं हेमदुग्धं यशोडम्बरम्। दन्त्यादीनां मूलं चर्णितं गवां मृत्रे सप्ताह भावयेत् । ततः पाणितलं कर्ष घृतेन पिबेत् । . इत्येकः ॥१४॥ कषायात् । मोदककरणेऽपि तत्कषायात् यो भागा इत्यादिविधानमनुवर्तते । तयोश्चापि कषायेण
For Private and Personal Use Only