________________
Shri Mahavir Jain Aradhana Kendra
२३६६
www.kobatirth.org
चरक संहिता |
-
Acharya Shri Kailassagarsuri Gyanmandir
पिवेन्मात्रां रसालायास्तं भुक्का षष्टिकौदनम् । वर्णस्वरबलोपेतः पुमांस्तेन वृषायते ॥ ७ ॥
इति वृष्यदध्यादि ।
इति नृप्यदुग्धादि ।
चन्द्रांशुकल्पं पयसा घृताढ्य षष्टिकौदनम् । शर्करामधुसंयुक्तं प्रयुआनो वृषायते ॥ ८ ॥ तप्तं सर्पिषिनकाण्डं ताम्रचूडाण्डमिश्रितम् । युक्तं षष्टिकचूर्णेन सर्पिषाभिनवेन च ॥ पक्त्वा पूपलिकाः खादेद् वारुणीमण्डपो नरः । य इच्छेश्ववद् गन्तु प्रसेक्तुं गजवच्च यः ॥ ६ ॥ इति नकाण्डपाकवृष्ययोगः ।
भवतश्चात्र ।
I
सिक्क्षीरिके पादे योगा ये परिकीर्त्तिताः अष्टावपत्यकामैस्ते प्रयोज्याः पौरषार्थिभिः ॥
[ वाजीकरणपाद २
For Private and Personal Use Only
कृत्वा छानयिला नवकुम्भे प्रक्षिपेत् । नवकुम्भमुखे शुचिपटं विस्तीर्य तद् दधिसरं छानयेत् । ततो वस्त्ररन्ध्रेण कुम्भे पततीति भावः । ततो नवकुम्भात् तं यथाबलं पानाहं तस्मान्मात्रया नीला शीते घृताक्ते षष्टिकौदने प्रक्षिपेत् । तं पठघृष्टशर्करादियुक्तं दधिसरपष्टिकोदनं भुक्त्वा उपरिष्टात् रसालाया मात्रां पिबेत् । रसाला तु -- “सचतुर्जातकाजाजि सगुड़ाई कनागरम् । रसाला स्याच्छिखरिणी सुघृष्टं ससरं दधि ॥” इति ॥ ७ ॥ इति वृष्यदध्यादि । गङ्गाधरः चन्द्रांश्वत्यादि । चन्द्रांशुकल्पं निर्मलम् । शेषं स्पष्टम् ॥ ८ ॥ T गङ्गाधरः- तप्तेत्यादि । सर्पिषि तप्ते नक्राण्डं कुम्भीराण्डं ताम्राण्ड - मिश्रितं क्षिप्त्वा तप्त' कृत्खा तन्मध्यस्थ' यत् तं षष्टिकतण्डुलचर्णेन तप्तोदकमृदितैनानृत्य पूपलिकाः पूपाख्यपिष्टकं नाम लोके तदाकृतीः कृत्वाभिनवेन सर्पिषा पक्त्वा भृष्टाः खादेत् । तदनु वारुणीमण्ड नरः पिवेदित्यभिप्रायेण वारुणीमण्डपः खादेदित्युक्तम् ॥ ९ ॥
गङ्गाधरः- एतत्पादोक्ताष्टयोगानां विषयमाह - भवतश्चेत्यादि । अत्र पाढ़े कटुत्वाद्यधिकं न भवति तथा मरिवादियोगः कर्त्तव्यः । मार्जितमिति सुष्पृष्टम् । रसालालक्षणम्,""सचातुर्जातकाजाजि सगुड़ाई कनागरम् । रसाला स्याच्छिखरिणी सुघृष्ठ ससरं दधि ॥” इति ॥६॥७