________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ममध्यायः ।
कल्पस्थानम्।
३५६३ . गम्भीरानुगतं श्लक्ष्णं न तिर्यग् विस्तृतञ्च यत् । तद् विपाटोद्धरेद् गर्भ त्वचं शुष्कां निधापयेत् ॥ ५॥ निग्धखिन्नो विरेच्यस्तु पेयमात्रो गतः सुखम् । अनमात्रं तयोः पिण्डं विनीयाम्लेन ना पिबेत् ॥ गोऽव्यजामहिषीमूत्र-सौवीरकतुषोदकैः । प्रसन्नया त्रिफलया शृतया च पृथक पृथक् ॥ ६॥ एकैकं सैन्धवादीनां द्वादशानां सनागरम् ।
त्रिवृत्तिगुणसंयुक्तं शर्कराम्बुयुतं पिबेत् ॥७॥ सन्नेव पुमान् शुक्लपक्षे समुद्धरेत्। कीदृशं मूलमुद्धरेदिति तदाह-गम्भीरेत्यादि। तस्या यन्मूलं गम्भीरमृत्तिकायामनुगतं श्लक्ष्गम कर्कशं यन तिर्यग विसृतं तन्मूलमुद्धरेत्। गर्भ विपाटय चोद्धरेन्मध्यं काष्ठं, खचं शुष्का निधापयेत् ॥५॥ ___ गङ्गाधरः-विरेचनक्रममाह-स्निग्धे त्यादि। स्निग्धस्विनः पुमान् यो विरेच्यः स पेयमात्रः सुखं गतः स्यात् । यथा पिबेतु तदाह-अक्षेत्यादि । तयोः श्यामात्रितयोरक्षमात्रं पिण्डं विनीय पेषयिला कल्कीकृत्याम्लेन गोलयिता ना पुमान् पिबेत् । इत्येकोऽम्लेन । अपरानष्टावाह-गोऽव्यजेत्यादि । तदक्षमात्र तयोः पिण्डं गोमूत्रेग पिवेदथवा मेषीमूत्रेण पिबेदथवा छागीमूत्रेण पिबेदथवा महिषीमूत्रेण पिवेदथवा सौवीरकेण पिबेदथवा तुषोदकेन पिवेदथवा प्रसन्नया पिवेदथवा भृतया त्रिफलया पिवेदित्यष्टौ योगाः। इति अम्लादिभिरेकोऽटौ चेति नव ॥६॥
गाधरः-अथ सैन्धवादिभिर्दश च द्वौ चाह। संन्धवादीनां दीर्घजीवि. तीयोक्तानां द्वादशानां सैन्धवविडोद्भिदसामुद्रलवणानां चतुणी तदनन्तरोक्ता गुणवस्यामित्यादि । शुक्ल इति शुक्लपक्षे। गम्भीरानुगतमिति दूरात् प्रविष्टम् । उद्धरेद् गर्भमिति मूलस्यास्थि उद्धरेत् । निधापयेदिति यथोक्तभैषज्य स्थापनविधानेन स्थापयेत् ॥५॥
चक्रपाणिः-पेयामानोषित इति पूर्वदिने पेयामात्राहारतया उषितः। यद्यपि चान्यत्र विरेचम्पूर्व दिनेषु तथैवाहारो नियमितः-स्नेहवद्वमुष्णञ्च खयह मांसरसौदनम्' इत्यनेन, तथापि सिविरेचनप्रयोगे पूर्वदिने विशेषविधानात् पेयादानं ज्ञेयम्। किम्चेयमेव तवचनात् स्निग्धोष्णमासरससाधिता च क्रियमाणा पूर्वोक्तस्नेहवद्रोष्णमांसरसौदनविरुद्धा भवति । अक्षमातमित्यादिना नवभिरम्लादिभिव्यैर्नव योगानाह। तयोरिति श्यामानिवृतरुणमिवृतयोः ।
For Private and Personal Use Only