________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः। अथातो वत्सककल्पं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः ॥१॥ अथ वत्सकनामानि भेदं स्त्रीपंसयोस्तथा। कल्पञ्चास्य प्रवक्ष्यामि विस्तरेण यथातथम् ॥ २॥ वत्सकः कुटजः शको वृक्षको गिरिमल्लिका । वीजानीन्द्रयवास्तस्य तथोच्यन्ते कलिङ्गकाः॥ वृहत्फलः श्वेतपुष्पः स्निग्धपत्रः पुमान् भवेत् । श्यामा चारुणपुष्पी स्त्री फलवृन्तैस्तथाणुभिः॥ रक्तपित्तकफनस्तु सुकुमारेष्वनत्ययः। हृद्रोगज्वरवातासृक्-विसर्पादिषु शस्यते ॥ ३॥ काले फलानि संगृह्य तयोः शुष्काणि संक्षिपेत् । तेषामन्त खं मुष्टिं जर्जरीकृत्य भावयेत् ॥ गङ्गाधर-अथोद्देशानुक्रमात् वत्सककल्पमाह-अथात इत्यादि। षड्: विरेचनशताश्रितीये यदुदिष्टम् -कुटजस्त्वष्टादशधा योगमेतीति, तदष्टादश योगान् कुटजस्य व्याख्यास्याम इति शेषं पूर्ववत् ॥१॥ . गङ्गाधर-अथेत्यादि। वत्सकस्य स्त्रीपुभेद नामानि चाह-वत्सक इत्यादि। तस्य वीजानीन्द्रयवाः कलिङ्गकाश्चोच्यन्ते। स्त्रीपुभेदमाहवृहत्फल इत्यादिः पुमान्। श्यामेत्यादिः स्त्री, फलश्च द्वन्तश्च सूक्ष्म तस्याः। तस्य गुणमाह-रक्तपित्तेत्यादि ॥२॥३॥
गङ्गाधरः-काल इत्यादि। तयोः स्त्रीपुसयोर्वत्सकयोः। तेषां शुष्काणां चक्रपाणिः-यथोक्तसम्बन्धाद् वत्सककलाभिधानम् । वत्सकनामानि व्यवहारा) सीपुरुषमेवाह-अथ वरसकेत्यादि । अन्न वस्सास्त्रीपुरुषभेदेन गुणभेदः प्रयोगभेदो वा न प्रतिपादित, तथापि स्त्रीरूपवत्सकेऽरुणपुष्पाऽणुफलस्वादिविशिष्टलक्षणयुक्तेऽप्यविशेषेणोभाभ्यामेवामयनिति स्वादिस्वेतदर्थमुभयोरपि समानगुणता ज्ञातव्या। काल इति उचित काले। फलानीति पक
For Private and Personal Use Only