________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- चतुर्थोऽध्यायः। अथातो धामार्गवकल्पं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥१॥ कर्कोटकी कोठफला महाजालिनिरेव च। धामार्गवश्च पर्यायैराजकोषातकी तथा ॥ गरे गुल्मोदरे कासे वातश्लेष्मामये स्थिते। कफे च कण्ठवक्तस्थे कफसञ्चयजेषु च ॥ रोगेष्वेषु प्रयोज्यः स्यात् स्थिराश्च गुरवश्च ये। पुष्पं फलं प्रबालश्च विधिना तस्य संहरेत् ॥ २ ॥ प्रबालस्वरसं शुष्कं कृत्वा च गुड़िकाः पृथक् ।। कोविदारादिभिः पेयाः कषायैर्मधुकस्य च ॥३॥ गङ्गाधरः-अथोद्देशक्रमात् धामार्गवकल्पमाह-अथात इत्यादि । धामार्गवः पीतघोषकः। प्रागुक्तधामार्गवः षष्टिधायोगयुक्त इति तद्धामागबकल्पे षष्टिं योगान् व्याख्यास्याम इति। सर्वं पूर्ववत् ॥१॥
गङ्गाधरः-कर्कोटकीत्यादि। कर्कोटकीत्यादिभिः पर्यायैर्धामार्गव उच्यते । गरे इत्यादि। सगरादिषु प्रयोज्यः स्यात्, ये च गुरवः स्थिराश्च रोगास्तेष्वपि प्रयोज्यः स्यात् । प्रयोगानाह-पुष्पमित्यादि। शुच्यादिविधिना तस्य धामार्ग वस्य काले पुष्पं फलं प्रबालानग्रभागान् संहरेत् ॥२॥
गङ्गाधरः-तत्र प्रबालानां स्वरसं शुष्कीकृत्य गुड़िकाः कर्षमाणाः कृखा कोविदारादीनामष्टानामन्यतमस्य कषायैर्मधुकस्य च कषायैः पेयाः। इति पल्लवे नव योगाः॥३॥
चक्रपाणि:-उक्तसम्बद्धधामार्गवकल्पोऽभिधीयते। तक्ष कर्कोटकीत्यादिना पर्यायकथनम् । धामार्गवः पीतघोषकः। स्थिराश्च गुरवश्च य इत्यत्र गदा इति शेषः। विधिनेति भेषजमहणोक्तन विधिना ॥१॥२॥
चक्रपाणि:-प्रबालेत्यादिना नव योगानाह। प्रबालस्य स्वरसः । भत्र केचिदाहुः--कवायः गुड़िकाकरणं पानश्च ज्ञेयमिति ॥ ३ ॥
For Private and Personal Use Only