________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५१४
चरक-संहिता। [योनिव्यापचिकित्सितम् औचित्याद यस्य यत् सात्म्यं देशस्य पुरुषस्य च। अपथ्यमपि नैकान्तात् सन्त्यज्य लभते सुखम् ॥ वाहीकाः शाड्बलाश्चीनाः शुनीका यवनाः शकाः। मांसगोधूममाध्वीक-शरत्रवैश्वानरोचिताः॥ मत्स्यसात्म्यास्तथा प्राच्याः क्षीरसात्म्याश्च सैन्धवाः । अश्मकावन्तिकानान्तु तैलाम्लं सात्म्यमुच्यते ॥ कन्दमूलफलं सात्म्यं विद्यान्मलयवासिनाम् । सात्म्यं दक्षिणतः पेया मण्डश्चोत्तरपश्चिमे । मध्यदेशे भवेत् सात्म्यं यवगोधूमगोरसाः ॥ सात्म्यं ह्याशु बलं धत्ते नातिदोषञ्च वह्वपि । योगैरेवं चिकित्सन् हि देशाद्यज्ञोऽपराध्यति ॥ तेषां तत्सात्म्ययुक्ताश्च क्योऽवस्थायुतास्तथा।
आयुर्बलशरीरादि-भेदा हि बहवो मताः ॥ १२२ ॥ - गङ्गाधरः-अपथ्यस्यापि सात्मस्यावर्जनमाह-औचित्यादित्यादि । यस्य जनस्य देशस्यौचित्याद यद द्रव्यं सात्म्यं पुरुषस्य प्रकृत्यौचित्याच यस्य यत् सात्म्यं तदुपस्थितरोगेष्वपथ्यमपि नैकान्तात् त्यजेत् । ऐकान्तात् सन्त्यज्य न मुखं लभते। तत्र देशौचित्यात् सात्म्यमाह-वाहीका इत्यादि। वाडीकादयः देशौचित्यात् मांसादुप्रचिताः। प्राच्या मत्स्यसात्म्याः। सैन्धवाः क्षीरसात्म्याः। अश्मका आवन्तिकाश्च तैलाम्लसात्म्याः। मलयवासिनः कन्दमूलफलसात्म्याः। पेयासात्म्याः दाक्षिणात्याः। उदीच्याः पाश्चात्याच मण्डसात्म्याः। मध्यदेशवासिनो यवगोधूमगोरससात्म्याः। तेषां तत्सात्म्य. युक्तास्तथा वयोऽवस्थायुताश्च आयुर्बल शरीरादिभेदा बहवो मता इति ॥ १२२ ॥ . चक्रपाणिः- उक्तप्रयोगैरेव चिकित्सां कुर्वाणो दोषमाह-योगैरेवमित्यादि । देशादीत्यनेन प्रशाप्रज्ञानात् देशादिविगुणचिकित्साकारकं पुरुषं क्षयति। अपराध्यतीति मेसितं साभयति। शाम इनादिशब्देन बयोबहादीनां प्रहम्। क्योपए रीरप्रकृतिरूवानां
२.
13
For Private and Personal Use Only