________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०श अध्यायः ]
चिकित्सितस्थानम् ।
सामुद्र हिक्किने देयं लघुनान्नेन संयुतम् । संभोज्यञ्चषधं भोज्यैर्विचित्रैररुचौ हितम् ॥ ज्वरे पेयाः कषायाश्च चीरं सर्पिर्विरेचनम् । पड़ पड़ देयं कालं वीक्ष्यामयस्य च ॥
वेगमौ लघुता विशुद्धिर्जीर्णलचणम् । तदा भेषजमादेयं स्याद् दोषवदतोऽन्यथा ॥ चयादयश्च दोषाणां वज्यं सेव्यञ्च यत्र यत् । ऋताववेदय तत् कर्म्म सर्व्वं पूर्व्वमुदाहृतम् ॥ ११५ ॥
३५११
श्वासादिषु मुहुर्मुहुरवचार्य्यम् । हिकिनः सामुद्र' देयं लघुनान्नेन संयुतम् । भक्तसंयुक्तं विचित्रैर्भोज्यः सहौषधं भोज्यमरुचो हितम् । इति दश काला औषधावेक्षणा भवन्ति । अथ व्याध्यवेक्षणं कालमाह-ज्वर इत्यादि । ज्वरे प्रथमं लङ्घनं लङ्घनानन्तरं पेया प्रथमे षड़हे प्रथमदिनावधि सप्ताहे, ततोऽष्टम दिवावधि षड़हे कषायास्ततश्चतुर्दशदिनावधिपड़द्दे क्षीरं ततो विंशदिनावधिपड़हे सर्पिस्ततः पड़ विंशदिनावधिषड़हे विरेचनमिति । एवमामयस्य कालं वीक्ष्य च पेयादिकक्रमः । पूर्व्वापरकालेऽपि । अथ जीर्णलिङ्गावेक्षणं कालमाह - क्षुदित्यादि । क्षुधा तथा वेगस्य मलमूत्रयोर्मोक्षः शरीरोदरयोलंघुता उद्गारशुद्धिश्व जीर्णेलक्षणमिति । जीर्णलक्षणे भेषजं सेव्यमन्यथा भेषजं दोषवत् स्यादिति । अथ ऋलवेक्षणं कालमाह - चयादय इत्यादि । दोषाणां यत्रौ यस्य चयप्रकोपप्रशमाः पूर्व्वं ते मोक्ताः सूत्रस्थाने, यत्र ऋतौ यद् वयं यच्च सेव्यं तत् स पूर्व तस्याशितीये उदाहृतम्, तदवेक्ष्य कम् काय्र्यम् ॥ ११५ ॥
For Private and Personal Use Only
भुक्तमिति तु पदं सर्व्वानकालेऽपि योजनीयं भेषजविशेषणमिति व्याख्यानयन्ति । औषधापेक्षं कालमभिधाय व्याध्यपेक्षं कालमाह-ज्वर इत्यादि । उत्सर्गविधिना ज्वराट् आरभ्य षढ़ यथाक्रमं देयमिति उच्यते । षड़हादिक्रमे पेयादिदानं न विरोधमावहति । सामान्यविधिर्विशेषविधिं न बाधते तक्ष्य सर्व्वत्रैव मनुनीयत्वात् । क्षुदादिभिः लक्षणदः सम्बध्यते ॥ १४५ ॥