________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
২৪৩
चरक संहिता। योनिच्यापश्चिकित्सितम् शल्लकीजिङ्गिनीजम्बू-धवत्वपञ्चवल्कलैः । कषायैः साधितः स्नेह-पिचुः स्याद विप्लुतापहः ॥ ४७॥ कर्णिन्यां वर्तिका कुष्ठ-पिप्पल्यर्काग्रसैन्धवैः। वस्तमूत्रकृता धार्या सर्वश्च श्लेष्मनुद्धितम् ॥४८॥ त्रवृतः स्नेहनं स्वेदो ग्राम्यानूपौदका रसाः। दशमूलीपयोवस्तिश्चोदाव निलार्तिषु ॥ ४६॥ प्रवृतेनानुवास्यैव वस्तिरुत्तरसंज्ञकः। एतदेव महायोन्यां स्वस्तायाञ्च विधीयते ॥ वराहकुक्कुटवसा घृतं मधुरकैः शृतम् । संप्रवेश्य महायोनि बध्नीयात् क्षौमलक्तकैः ॥ प्रसुप्तां सर्पिषाभ्यज्य क्षीरविन्नां प्रवेशयेत् । बन्नीयाद वेशवारस्य पिण्डेनामूत्रकालतः॥ गङ्गाधरः-शल्लकीत्यादि। शल्लकी वृक्षविशेषः। निङ्गिनी मञ्जिष्ठा। जम्बूधवयोस्वक। आम्रादिपञ्चवल्कलैश्च काथैश्चतुर्गुणरकल्कसाधिततैलादि. स्नेहपिचुर्विप्लुतापहः॥४७॥
गङ्गाधरः-कर्णिन्यामित्यादि। कर्णिन्यां योनौ कुष्ठादि सैन्धवान्तर्वस्तमूत्रपिष्टः कृता वत्तिका योनौ धार्या । सर्वश्च श्लेष्मनुत् कर्म हितम् ॥४८॥ . गङ्गाधरः-त्रैवत इत्यादि। उदावर्तायामनिलार्तिषु त्रिताप्रयोगः। ग्राम्यादिमांसरसाः। दशमूली गव्यं पयः। तेनेत्यादि। त्रैवतेन तैलेनानुवास्या। महायोन्यामुत्तरवस्तिविधीयते । एतदेव स्रस्तायां योनौ विधीयते । वराहेत्यादि। वराहकुक्कुटयोर्वसा च घृतञ्चेति यमकं मधुरकैर्जीवनीयः कल्कैः श्रुतं प्रक्षयिखा महायोनि संप्रवेश्य तघृताक्तैः क्षोमालक्तकैर्बध्नीयात् । प्रमुप्तामित्यादि। प्रमुप्तां योनि सर्पिषाभ्यज्य क्षीरखिन्नां प्रवेशयेत् । ततो वेशबारस्य पिण्डेन बनीयात् । आमूत्रकालतो मूत्रवेगकालपर्यन्तम्, मूत्रवेगे मुञ्चेत् । चक्रपाणिः-वृतं स्नेहनमिति सर्पिस्तैलवसास्नेहनम् । एतदेवेति वृतमेव अनुवासनवतिः
For Private and Personal Use Only