SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (वाजीकरणपाद २३५० चरक-संहिता। वयोरूपवचो-®-हावैर्या यस्य परमङ्गाना। प्रविशत्याशु हृदयं दैवाद वा कर्मणोऽपि वा ॥ . हृदयोत्सवरूपा या या समानमनःश्रया +। समानसत्वा या वश्या या यस्य प्रीयते प्रियः॥ या पाशभूता सर्वेषामिन्द्रियाणां परैर्गणैः । यया वियुक्तो निस्त्रीकमरतिर्मन्यते जगत् ॥ यस्या ऋते शरीरं ना धत्ते शून्यमिवेन्द्रियैः। शोकोद्व गारतिभयैर्या दृष्टा नाभिभूयते ॥ याति यां प्राप्य विस्त्रम्भं दृष्ट्रा हृष्यत्यतीव याम् । अपूर्वमिव यां याति नित्यहर्षातिवेगतः॥ - गङ्गाधरः-ननु सा स्त्री किं सर्वस्य पुसो तृष्पतमेत्यत आह-वय इत्यादि। याङ्गना स्त्री वयोरूपादिभिर्यस्य पुसो हृदयं मन आशु परमुत्कृष्टं प्रविशति, दैवाद् भाग्याद वाशु परं हृदयं यस्य प्रविशति, कम्मणोऽपि वा शरीरवाकचेष्टातोऽपि वा यस्य हृदयम् आशु परं प्रविशति, या स्त्री यस्य हृदयोत्सकरूपा, या समानमनःश्रया या स्त्री यस्य पुसो मनसः समानमनस आश्रया, या स्त्री यस्य पुसः सत्त्वस्य समानसत्त्वा, या स्त्री यस्य पुसो वश्या, या स्त्री यस्य पुसः प्रियैर्भावैः प्रीयते, या स्त्री परैरुत्कृष्टगुणैः स्वस्या रूपलावण्यादिभिः यस्य पुंसः सर्वेषामिन्द्रियाणां पाशभूता बन्धनार्थरज्जुरूपा, यया स्त्रिया वियुक्तो वियोगयुक्तः पुनयः पुमान् अरती रती रमणं तद्रहितः सन् जगत् निस्त्रीकं स्त्रीरहितं मन्यते, यस्या ऋते इन्द्रियैः शून्यमिव, यस्यां स्त्रियां सर्वेन्द्रियाणि समर्प्य सर्बेन्द्रियशून्यवत् शरीरं यः पुमान् धत्ते, यां स्त्रियं दृष्ट्वा माप्तः शोकोद्वेगारतिभयैर्नाभिभूयते यः पुमान्, यः पुमान् यां स्त्रियं प्राप्य विसम्भं विश्वासं याति, यां स्त्रियं दृष्ट्वा यः पुमान् अतीव हृष्यति, नित्यहर्ष. वेगतोऽविश्रान्तकामवेगात् यः पुमान् अपूर्वमिव पूर्व यथा न यातस्तथा यां देवयोगादिति प्राक्तनकर्मवशात् ; निवर्तन्त इति निष्पन्नाः सम्पद्यन्ते ; हावो नरं प्रति स्त्रीणां भृङ्गारचेष्टाविशेषः; उत्तञ्च भरतेन-"प्रकाशरूपकं सत्त्वं सत्त्वोत्प्लवाः समुद्गताः। तेभ्यो हावादिनिष्पत्तिरित्याहुः परमर्षयः ॥” इति । देवादिति प्राक्तनकर्मणः । कर्मण इति ऐहिकात् - वयोरूपमृजाहावैरिति वा पाठः। समानमनःशया इति वा पठ्य ते क्वचित् । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy