________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८ अध्यायः]
चिकित्सितस्थानम्।
३४१६ आमाशयगतं मत्वा कर्फ वमनमादिशेत । पक्वाशये विरेकन्तु पित्ते सर्वत्रगे तथा ॥ स्वेदैर्विष्यन्दितः श्लेष्मा यदा पक्वाशयस्थितः। पित्तं वा दर्शयल्लिङ्ग वस्तिभिस्तो विनिहरेत ॥ श्लेष्मणानुगतं वातमुष्णैर्गोमूत्रसंयुतः। निरूहैः पित्तसंस्कृष्टं निहरेत क्षीरसंयुतः॥ मधुरौषधसिद्धैश्च तैलैस्तमनुवासयेत् ।। शिरोगते तु सकफे धूमनस्यादि कारयेत् ॥ हृते पित्ते कफे च स्यादुरःस्रोतोऽनुगोऽनिलः। सवेषां स्यात क्रिया तत्र कार्या केवलवातिकी॥ कारयेत् रक्तसंस्कृष्ट वातशोणितिकी क्रियाम् ।
प्रमेहवातमेदोनीमामवाते प्रयोजयेत् ॥ -- गङ्गाधरः-आमाशयेत्यादि। कफमामाशयगतं मला वमनमादिशेत् । पकाशय इत्यादि। सर्वत्रगे पित्ते विरेकमादिशेत्। स्वेदरित्यादि। स्वेदैविष्यन्दितो द्रवीभूतः श्लेष्मा यदा पकाशयस्थितः स्यात पित्तं वा स्वलिङ्गं दर्शयेत् तदा तो पित्तकफो वस्तिभिर्विनिहरेत् । श्लेष्मणेत्यादि। श्लेष्मानुगतं वातमुष्णरुष्णद्रव्यकृतनिरूहैर्गोमूत्रयुतैनिहरेत् । पित्तसंसृष्टं वातं मधुरोषधसिद्धैः क्षीरसंयुतै निरूहैनिहरेत्। तैलेश्च मधुरौषधसिद्धस्तं पित्तसंसृष्टं वातमनुवासयेत्। शिरोगते खित्यादि । सकफे वाते । हृत इत्यादि। हृते पित्ते च कफ च यदुारःस्रोतोऽनुगोऽनिलः स्यात् तदा सर्वेषां वातानां केवलवातिकी क्रिया कार्या। कारयेदित्यादि। रक्तसंसृष्टे वाते वातरक्तक्रियाम्, आमवाते
चक्रपाणिः-आमाशयगतं मत्वा कफमिति वातानुबन्धिकफस्यैव चिकित्सा। पक्वाशये विरेकन्त्वित्यत्र कफ इत्यनुवर्तते। सर्वतग इति अन्यस्थानगतेऽपि पित्त । यद्यपि दोषान्तरस्थाने गते तदोषप्रधानमेव कर्म वमनं वस्तिर्वोक्त तथाप्यनेन विरेचनमिति यौगिकं तत दर्शयति । साफ इति सकफे वाते। स्रोतोऽसृगिति केचित् पठन्ति । तथाच सूक्ष्मस्रोतोऽनुग इति केचित् पठन्ति, सूक्ष्मस्रोतोऽनुगत इत्यर्थः। प्रमेहवातमेदोनीति प्रमेहन्नी वातघ्नी मेदोनीच।
For Private and Personal Use Only