________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८श भध्यायः
२८श अध्याया। चिकित्सितस्थानम् । ३४१७
यवकोलकुलत्थानां मत्स्यानां शिग्रु बिल्वयोः । रसेन मूलकानाश्च तैलं दधिपयोऽन्वितम् ॥ साधयित्वा भिषक दद्यात् सर्ववातामयापहम् । लसुनखरसे सिद्धं तैलमेभिश्च वातनुत् ॥ तलान्येतानातुस्नातामङ्गानां पाययेत च। पीत्वान्यतममेतेषां बन्ध्यापि जनयेत् सुतम् ॥ ६०॥ यच्च शीतज्वरे तैलमगुर्बाद्यमुदाहृतम् । अनेकशतशस्तच्च सिद्धं स्याद वातरोगनुत् ॥ वक्ष्यन्ते यानि तैलानि वातशोणितिकेऽपि च । तानि तानि च शान्त्यर्थं सिद्धिकामः प्रयोजयेत् ॥ ६१॥ नास्ति तैलात् परं किञ्चिदौषधं मारुतापहम् । व्यवाय्युष्णगुरुस्नेहात् संस्काराद् बलवत्तरम् ॥ गणैर्वातहरैस्तस्माच्छतशोऽथ सहस्रशः। सिद्धं क्षिप्रतरं हन्ति सूक्ष्ममार्गस्थितान् गदान् ॥ ६२॥ गाधरः-यवेत्यादि। यवादीनां प्रत्येक रसेन तैलसमेन तैलं साधयिता भिषक् दद्यात् । एभिय वादिरसैलसुनस्वरस च तैलं सिद्धं वातनुत् । तलान्येतानीति बलातैलादीनि ॥६०॥ - गङ्गाधरः-यच्चेत्यादि । ज्वरचिकित्सिते प्रोक्तमगुर्वादितलमनेकशतशः बहुशतवारं पत्त्या सिद्धं वातरोगनुत् स्यात्। वातशोणितिके वातरक्तचिकित्सिते यानि तैलानि वक्ष्यन्ते तानि तानि च तैलानि वातरोगाणां शान्त्यर्थ प्रयोजयेत् ॥ ६१॥ ___ गङ्गाधरः- स्तीत्यादि। वातहरैर्गणे द्रदाळदिभिः। शतशः शतशतवारान् पक्वं सहस्रशः सहस्रसहस्रवारान पकम् ॥ ६२॥
चक्रपाणिः-सर्वगन्धेरिति बलातैलोक्तः सर्वगन्धैः। साई सहितम्। मूलकतैलाग्यमिति संशया, अथवा रास्नादीनां मूलेनैव क्वाथसाधनेन साधितम् । लशुनस्वरंस इत्यादी एमिश्चेति यवादिकाः अनन्तरोक्तः। अनेकशः शत शश्च तेनैव विधानेन साधितम् ॥ ५९-६२॥
For Private and Personal Use Only