________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४१६
चरक-संहिता। वातम्याधिचिकिस्सितम् वृषमूलगुडूच्योश्च द्विशतस्य शतस्य तु।। चित्रकात् साश्वगन्धाच्च काथे तैलाढकं पचेत् ॥ .. सक्षीरं वायुना भग्ने दद्यात् जर्जरित तथा। प्राक्तैलावापसिद्धश्च भवेदेतद् गुणोत्तरम् ॥ ५८॥ रास्नाशिरीषयष्टाह्व-शुण्ठीसहचरामृताः। श्योणाकं दारुकं मांसी-हयगन्धात्रिकण्टकाः ॥ एषां दशपलान् भागान् कषायमुपकल्पयेत् । ततस्तेन कषायेण सर्वगन्धैश्च कार्षिकैः ॥ दध्यारनालमाषाम्ल-मूलकेचरसैः शुभैः। पृथक् प्रस्थोन्मितः साई तैलप्रस्थं विपाचयेत् ॥ प्रीहपार्श्वग्रहश्वास-कासमारुतकोपनुत् । रास्नातैलमिति ख्यातं पुनर्वसुनिदर्शितम् ॥ ५६ ॥
रानातैलम्। गङ्गाधरः-वृषमूलेत्यादि। वृषमूलस्य शतपलं गुडूच्याः शतपलमिति द्विशतस्य चित्रकात् शतपलस्याश्वगन्धायाः शतपलस्य च काथे एककेंद्रोणजळे पंखा षोड़शषोदशशरावावशेषे तैलाढकं समक्षीरमकल्लं पचेत्। वृष. मूलादितैलम् । एतत्तैलं पाक तैलस्य बलाचित्रकसैन्धवादिनतदाब्वन्तः कल्कै सिद्धश्च गुणोत्तरं स्यादकल्कादस्मादिति ॥५८॥
सकल्कषमूलादितलम् । गङ्गाधरः-रास्नेत्यादि। रास्नादीनां त्रिकण्टकान्तानामेकादशानां प्रत्येक दशपलमष्टगुणे जले पक्त्वा पादशेषे काथे दध्यादीनां प्रत्येकं प्रस्थमितैः सह कार्षिकैः सर्वगन्धेस्तैलप्रस्थं विपाचयेत् ॥ ५९॥ रास्नातैलम् ।
चक्रपाणिः-वृषमूलेत्यादौ अश्वगन्धाचित्रकाभ्यां मिलिताभ्यां काथे। प्राक् तैलात् 'नोपसिद्ध मिति मूलकस्वरसेत्याइयत्ततलेन समं सिद्धम्। द्विगुणोत्तरमिति पाठे वृषमूलादिकाथसिदात् बहार द्विगुणं श्रेष्ठम् ॥५॥
For Private and Personal Use Only