________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तविंशोऽध्यायः। अथात ऊरुस्तम्भचिकित्सितं व्याख्यास्यामः,
इति ह स्माह भगवानात्रेयः॥१॥ श्रिया परमया ब्राह्मा परया च तपःश्रिया। अहीनपूर्व चन्द्रार्कादिभ्यो मेरुमिवाचलम् ॥ धीधृतिस्मृतिविज्ञान-ज्ञानकीर्तिक्षमालयम् । अग्निवेशो गुरुं काले संशयं परिपृष्टवान् ॥ भगवन् पञ्चकर्माणि निर्दिष्टानि पृथक् त्वया। निर्दिष्टान्यामयानां हि सर्वेषामेव भेषजम् ॥ .. दोषजोऽस्त्यामयः कश्चिद यस्यैतानि भिषग्वर । न स्युः शक्तानि शमने साध्यस्य क्रियया सतः॥ अस्त्यूरुस्तम्भ इत्युक्तो गुरुणा तस्य कारणम् । सलिङ्गभेषजं भूयः पृष्टस्तेनाब्रवोद गुरुः ॥२॥ गङ्गाधरः-अथोद्दिष्टानुक्रमादूरुस्तम्भचिकित्सितमाह-अथेत्यादि। सन् पूर्ववद व्याख्येयम् ॥ १॥
गङ्गाधरः-श्रियेत्यादि। अहीनपूर्व पूर्व चन्द्रार्कादिभ्यो न हीनं मेरुमचलमिव धीधृत्याद्यालयं गुरुमात्रेयं कालेऽग्निवेशः संशयं पृष्टवान् । भगवभित्यादि। हे भगवन् खया पृथक् पञ्चकर्माणि निर्दिष्टानि सव्वषामामयानां फाणि निर्दिष्शनि। भेषजश्च निर्दिष्टम् । कश्चिद्दोष नस्वामयोऽस्ति यस्य साध्यस्य सतो वर्तमानस्यामयस्य शमने खल्वेतानि कर्माणि न शक्तानि। हे भिषगवर ! भगघता गुरुणा भवताऽस्त्यूरुस्तम्भ इत्युक्तोऽष्टोदरीये एक
चक्रपाणिः-त्रिमर्मीयानपि बहून् रोगान् पञ्चकम्र्मसाध्यान् दृष्ट्वा पञ्चकर्मसाध्ये अहस्तम्भे जातस्मरण आचार्यः अरुस्तम्भचिकित्सितमाह, भवति हि विरोधदर्शनात् तविरोधस्मरणम् । महीनमिति सर्वदा युक्तम्। समस्तानीति मिलितानि। दोषज इतिपदं मानसागन्तु. निरासार्थम् । तन्निरासस्तु तयोः पनकम्माविषयतया प्रसिद्धस्वात्। तथा दोषजस्याप्यसाध्यस्य
४२३
For Private and Personal Use Only