________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः चिकित्सितस्थानम् ।
३३२६ क्षतजाभौ विदीय्यते पाटेरते चाभिघाततः। ग्रथितौ च समाख्याताबोष्ठी कण्डूसमन्वितो॥ दन्तमूलगतास्तु शीतादो दन्तपुपपुटको दन्तवेष्टकः शौपिरो महाशौषिरः परिदर उपकुशो दन्तवैदर्भी वर्द्धनोऽधिमांसो नाड्यः पञ्चेति । शोणितं दन्तवेष्टेभ्यो यस्याकस्मात् प्रवर्त्तते । दुर्गन्धीनि सकृष्णानि प्रक्लेदीनि मृदूनि च। दन्तमांसानि शीर्य्यन्ते पचन्ति च परस्परम्। शीतादो नाम स व्याधिः कफशोणितसम्भवः ॥ दन्तयोस्त्रिषु वा यस्य श्वयथुः सरुजो महान् । दन्तपुप्पुटको शेयः कफरक्तनिमित्तजः॥ स्रवन्ति पूयरुधिरं चला दन्ता भवन्ति च। दन्तवेष्टः स विज्ञ यो दुष्टशोणितसम्भवः॥ श्वयथुर्दन्तमूलेषु रुजावान् कफरक्ततः। लालासावी स विज्ञयः कण्डूमान् शौषिरो गदः॥ दन्ताश्चलन्ति वेष्टेभ्यस्तालु चाप्यवदीर्यते। दन्तमांसानि पच्यन्ते मुखश्च परिपीड्यते। यस्मिन् स सव्जो व्याधिर्म हाशौषिरसंशकः ॥ दन्तमांसानि शीर्यन्ते यस्मिन् ष्ठीवति चाप्यमृत्। पित्तामुककफजो व्याधिश यः परिदरो हि सः॥ वेष्टेषु दाहः पाकश्च तेभ्योदन्ताश्चलन्ति च। आघट्टिताः प्रस्रवन्ति शोणितं मन्दवेदनाः। आध्मायन्ते व ते रक्त मुखं पूति च जायते। यस्मिन् उपकुशः स स्यात् पित्तरक्तकृतो गदः॥ घृष्टेषु दन्तमूलेषु संरम्भो जायते महान्। भवन्ति च चला दन्ता स वैदर्भोऽभिघातजः॥ मारुतेनाधिको दन्तो जायते तीव्र वेदनः। वद्धनः स मतो व्याधिर्जाते रुक् च प्रशाम्यति ॥ हानव्ये पश्चिमे दन्ते महान् शोथो महारुजः। लालास्रावी कफकृतो विज्ञयः सोऽधिमांसकः॥ दन्तमूलगता नाड्यः पञ्च या यथेरिताः॥ दन्तगतास्तु दालनः क्रिमिदन्तको दन्तहर्षी भञ्जनकः शर्करा कपालिका श्यावदन्तको हनुमोक्षश्चेति । दाल्यन्ते बहुधा दन्ता यस्मिंस्तीत्ररुगन्विताः। दालनः स इति छ यः सदागतिनिमित्तजः॥ कृष्णच्छिद्री चलः स्रावी ससंरम्भो महारुजः। अनिमित्तरुजो वाताद विशे यः क्रिमिदन्तकः॥ दशनाः शीतमुष्णश्च सहन्ते स्पर्शनं न च । यस्य तं दन्तहर्षन्तु व्याधि विद्यात् समीरणात् ॥ वक्त वक्रं भवेद यस्मिन् दन्तभङ्गश्च तीव्ररुक। कफवातकृतो व्याधिः स भञ्जनकसंशितः॥ शरेव स्थिरीभूतो मलो दन्तेषु यस्य वै। सा दन्तानां गुणनी तु विशे या दन्तशर्करा॥ दलन्ति दन्तवल्कानि यदा शर्करया सह। शे या कपालिका सैव दशनानां विनाशिनी ॥ योऽमृमिश्रेण पित्तेन दग्धो दन्तस्वशेषतः। श्यावतां नीलतां वापि गतः स श्यावदन्तकः॥ वातेन तेस्तै वस्तु हनुसन्धिर्विसंहतः। हनुमोक्ष इति शेयो व्याधिरहितलक्षणः॥ जिहागतास्तु कण्टकास्त्रिविधा
For Private and Personal Use Only