SearchBrowseAboutContactDonate
Page Preview
Page 1064
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५श अध्यायः चिकित्सितस्थानम्। ३२६३ मुद्षष्टिकशालीनां पायसैर्वा यथाक्रमम् । सघृतैर्जीवनीयैर्वा तर्पयेत् तानभीक्षणशः॥५१॥ ककुभोडम्बराश्वत्थ-लोध्रकटफलजाम्बवैः । त्वचमाशु निगृह्णाति त्वक्चूणैश्चूर्णिता व्रणाः ॥ ५२ ॥ मनःशिलाले मञ्जिष्ठा शताहा रजनीद्वयम् । प्रलेपः सघृतक्षौद्रस्त्वग्विशुद्धिकरः परः ॥ ५३॥ अयोरजः सकाशीशं त्रिफलाकुसुमानि च। प्रलेपः कुरुते काष्ण्यं सद्य एव नवत्वचि ॥ कालीयकनताम्रास्थि-हेमकालरसोत्तमैः। लेपः सगोमयरसः सवर्णकरणः परः॥ ध्यामकाश्वत्थनिचुल-मूलं लाक्षाथ गैरिकम् । सहेम सामृतासंज्ञकाशीशञ्चेति वर्णकृत् ॥ ५४॥ गङ्गाधरः-मुद्गादीनामन्यतमस्य पायसैर्वा तान् व्रणांस्तर्पयेल्लेपयेत् । अथवा सघृतैर्जीवनीयैर्दशभिस्तान् व्रणांस्तर्पयेत् । तेन मृदवो नीरुगादयश्च व्रणा भवन्ति ॥५१॥ गङ्गाधरः-अथ व्रणावचूर्णनमाह-कलभेत्यादि। ककुभादीनां बकचूर्णश्चूर्णिता अवगुण्ठिता व्रणा आशु खचं निगृह्णाति निश्चयेन गृह्णाति ॥५२॥ गङ्गाधरः-अथ वण्यमाह-मनःशिलेत्यादि। आलं हरितालम् । बग्विशुद्धिगर्गात्रसवर्णता। अयोरज इत्यादि। त्रिफलानां कुसुमानि नवलचि बगस्य गात्रसवर्णकृष्णत्वं कुरुते। कालीयकेत्यादि। कालीयककाप्ठं नतमाम्रास्थि हेम नागकेशरं कालः कृष्णागुरु रसोत्तमः पारदः, एभिः सगोमयरसो लेपः। ध्यामकेत्यादि। ध्यामकं गन्धतृणं ध्यामकादीनां मूलं हेम नागकेशरं अमृतासंशा गुड़ ची। ध्यामकादीनां लेपो वर्णकृत् ॥५३॥ ५४॥ . क्षारमप्यवचारयेदिति वचनेन भारोऽपि विहितः। तर्पयेदिति तर्पणार्थ लेपं कारयेत् ॥ ४७-५१ ॥ चक्रपाणिः-ककुभेत्यादिप्रकरणेन त्वगजननं तथा वर्णकरणं तथा रोमजननमिति उपक्रममयमाह। स्वचमाश्वेव गृह्णन्ति इति सद्यो भवन्ति । त्रिफलाकुसुमानीति विफलापुष्पाणि । नता प्रियः । हेमकाला मञ्जिष्ठा । रसोत्तमः पारदः घृतं वा । अमृतासङ्गः कपिकच्छः ॥५२-५४॥ ४१३ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy