________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२६२
चरक-संहिता। [द्विवगीयचिकित्सितम् रोगदोषबलापेक्षी मात्राकालाग्निकोविदः। शस्त्रकाग्निकृत्येषु क्षारमप्यवचारयेत् ॥४७॥ . भूजग्रन्थ्यश्मकाशीशं समभागानि गुग्गुलुः। व्रणावसादनं तद्वत् कलविङ्ककपोतविद ॥ कठिनत्वं व्रणा यान्ति गन्धसारैश्च धूपिताः। सर्पिर्मज्जवसातैलैः शैथिल्यं यान्ति हि व्रणाः॥ रुजः स्रावाश्च गन्धश्च क्रिमयश्च व्रणाश्रिताः। काठिन्यं मार्दवञ्चापि धूपनेनोपशाम्यति ॥४८॥ लोध्रन्यग्रोधशुङ्गांश्च खदिरं त्रिफला घृतम् । प्रलेपो व्रणशैथिल्य-सौकुमार्यप्रसाधकः ॥ ४६॥ सरुजः कठिनाः स्तब्धा निराखावाश्च ये व्रणाः। यवचूर्णैः सर्पिष्कर्बशस्तान् प्रलेपयेत् ॥ ५० ॥ गङ्गाधरः-दाहवदगुणवात् क्षारदाहमाह-रोगेत्यादि। रोगाद्यपेक्षी मात्रादिकोविदः। शस्त्रकम्मे योग्येष्वग्निकर्मकृत्येषु क्षारमप्यवचारयेत् । क्षारविधानमिह विस्तरखानोक्तं कायप्रधानचिकित्सितशास्त्रवादस्य तन्त्रस्य शल्यतन्त्राल्पवचनं न दुष्यति ॥४७॥
गङ्गाधरः-अथ व्रणावसादनमाह-भूज्जत्यादि। भूर्जग्रन्थिरश्म च काशीशञ्च गुगगुलश्च समानि प्रलेपो व्रणावसादकरः, तद्वदवसादनः कलविकविट् कपोतक्ट् िच । कलविङ्कश्चटकः। अथ काठिन्यकरमाईवकरधूपने आह । कठिनलमित्यादि। गन्धसारः श्वेतचन्दनम् । सेन धूपिता व्रणाः कठिनत्वं यान्ति। सपिरादिभिध पिताः कठिना व्रणाः शैथिल्यं माईवं यान्ति । अनयोधू पनयोः कान्तरमाह-रुज इत्यादि ॥४८॥
गङ्गाधरः-काठिन्यमाईवकरे आलेपने चाह-लोधेत्यादि। लोध्रशुङ्गादीनां प्रलेपः व्रणशैथिल्ये काठिन्यस्य सौकुमाय्यस्य च प्रसाधकः॥४९॥
गङ्गाधरः-सरुजः कठिनाश्चैवमादयो ये व्रणास्तान् ससर्पिष्कयेवणः बहुशः प्रलेपयेत् ॥५॥ चक्रपाणिः-यद्यपि शस्त्रकर्मसु क्षारः पृथक पठितस्तथापि शस्त्रादीनां उपक्रमगृहीतस्वात्
For Private and Personal Use Only