________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिकित्सितम्
३२७८
चरक-संहिता। वणिनामादितः कार्यं यथासत्त्वं विशोधनम् । ऊर्द्ध भागैरधोभागैः शस्त्रैर्वस्तिभिरेव च ॥ सद्यः शुद्धशरीराणां प्रशमं यान्ति हि व्रणाः ।
यथाक्रममतश्चोद्ध शृणु सर्वानुपक्रमान् ॥ १८॥ व्रणस्ततः कृच्छसाध्यः स्मृतः। सङ्घ रित्यादि। बङमांसजलादिसर्वगुणः विहीनो व्रणोऽसाध्यो शेयः। तर्हि किं याप्य इति । निरुपक्रमो न तु याप्यः । सुश्रुते चासाध्यलक्षणादिकञ्चोक्तम् । तद्यथा-"अत ऊर्द्ध मसाध्यान् वक्ष्यामः। मांसपिण्डवदुद्गताः प्रसेकिनोऽन्तःपूया वेदनावन्तोऽश्वापानवदुद्धतौष्ठाः । केचित् कठिना गोशृङ्गवदुन्नतमृदुमांसपरोहाः। अपरे दुष्टरुधिरास्राविणस्तनुपिच्छिला. स्राविणो वा मध्योन्नताः। केचिदवसन्नशुषिरपर्यन्ताः। शणतूलवत् स्नायुजालवन्तो दुदृर्शा सामेदोमज्जमस्तुलुङ्गस्राविणश्च दोषसमुत्थाः। पीतासितमूत्रपुरीषवातवाहिनश्च कोष्ठस्थाः क्षीणमांसानाश्च सर्वतोगतयश्चाणमुखा मांसबुबुदवन्तः सशब्दवातवाहिनश्च शिरःकण्ठस्थाः। क्षीणमांसानाच पूयरक्तनि,हिणोऽरोचकाविपाककासश्वासोपद्रवयुक्ताः। भिन्न वा शिरःकपाले यत्र मस्तुलङ्गदशनं त्रिदोषलिङ्गप्रादुर्भावः कासश्वासौ वा यस्येति । भवन्ति चात्र। वसा मेदोऽथ मज्जानं मस्तुलुङ्गश्च यः स्रवेत् । आगन्तुजो व्रणः सिध्यान सिध्यादोषसम्भवः॥ अमम्मोपहिते देशे सिरासन्ध्यस्थिवजिते। विकारो योऽनुपयति तदसाध्यस्य लक्षणम् ॥ क्रमेणोपचयं प्राप्य धातूननुगतः शनैः। न शक्य उन्मूलयितुद्धो वृक्ष इवामयः ॥ स स्थिरखान्महत्त्वाच्च धाखनुक्रमणेन च। निहन्त्यौषधवीर्याणि मन्त्रान् दुष्टाहो यथा ॥ अतो यो विपरीतः स्यात् सुखसाध्यः स उच्यते। अबद्धमूलः क्षुपको यद्वदुत्पाटने मुखः” इति ॥१७॥
गङ्गाधरः-अथ पत्रिंशतमुपक्रमानाह-व्रणिनामित्यादि।आदितीव्रणिनां यथासत्त्वं यादृशबलवत्पुरुषस्तादृशमूर्दादिविशोथनं कार्यम् । कस्मात् ? हि यस्मात् सद्यो व्रणाः शुद्धशरीरिणां प्रशमं यान्ति । यथाक्रममित्यादि। सर्वान् षट्त्रिंशतम् ॥ १८॥
चक्रपा भवसरप्राप्तायां पटत्रिंशइपक्रमरूपायां चिकित्सायां वक्तव्यायां संशोधनस्य
For Private and Personal Use Only