________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५श अध्यायः] चिकित्सितस्थानम्।
३२७७ अस्थिभेदात् सशल्यत्वात् सविषत्वादतर्कणात् । नखकाष्ठावबाधाच मर्मलोमाभिघटनात् ॥ मिथ्याबन्धादतिस्नेहादतिभैषज्यकर्षणात् । अजीर्णादतिभुक्ताच्च विरुद्धासात्म्यभोजनात् ॥ शोकात् क्रोधाद दिवास्वप्नाद् व्यवायात् क्षोभणात् तथा। व्रणा न प्रशमं यान्ति निष्क्रियत्वाच्च देहिनाम् ॥ १५ ॥ परिस्रावाच गन्धाच्च दोषाच्चोपद्रवैः सह । वणानां बहुदोषाणां कृच्छ्रत्वञ्चोपजायते ॥ १६ ॥ त्वङ मांसजः सुखे देशे तरुणस्यानुपद्रवः। धीमतोऽभिनवः काले सुखे साध्यः सुखत्रणः ॥ गुणैरन्यतमै_नस्ततः कृच्छ्रो व्रणः स्मृतः।
सबै विहीनो विज्ञ यस्त्वसाध्यो निरुपक्रमः ॥ १७ ॥ अस्थिभेदश्च सशल्यवश्च सविषवश्च अतर्कणश्च नखावबाधश्च काष्ठावबाधश्च माभिघट्टनश्च लोमाभिघटनश्च मिथ्यावन्धश्च अतिस्नेहश्च अतिभैषज्यकर्षणञ्च अजीणञ्च अतिभुक्तञ्च विरुद्धभोजनञ्च असात्म्यभोजनश्च शोकश्च क्रोधश्च दिवास्वप्नश्च व्यवायश्च क्षोभणञ्चेति चतुर्विंशतिदोषाद व्रणा न प्रशमं यान्ति। न चैतावता दोषेण व्रणानां कृच्छसाध्यखमस्त्यन्यभावाच्च । निष्क्रियताच्च देहिनां व्रणा न प्रशमं यान्ति ॥१५॥ ___ गङ्गाधरः-परिस्रावाद गन्धाद दोषादुपद्रवाद बहुदोपवाद व्रणानां कृच्छतश्वोपजायते ॥१६॥ ___ गङ्गाधरः-सुखसाध्यसमाह-खमांसज इत्यादि। सुखे देशे यत्र क्लेशातिशयो न स्यादौषधदानादिषु च सुखं स्यात्। तरुणस्य यनः । अनुपद्रवो विसादुरपद्रवहीनः । धीमत इति क्रियाकरणे पथ्यसेवायां रतिमतः । सुखे काले हिमशिशिरे। गुणरित्यादि। बङमांसजलादिगुणानामन्यतमैर्बहुभिगुणींनो स्नायुक्लेदेत्यादि। अन्न नखकाष्ठप्रभेद एक कारणम् । चर्मलोमातिघट्टनं द्वितीयं कारणम् । तृतीयं निष्क्रियत्वम् । असाध्यो निष्प्रतीकार इत्यर्थः। असाध्यत्वमभिधायापि निरुपक्रमतामिभानेन सोपक्रममसाध्यं याप्यं निषेधयति ॥ १३-१७॥
For Private and Personal Use Only