________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२५८
चरक संहिता |
सशर्करं वा माध्वीक- संयुक्तमथवापरम् । दाद बहूदकं काले पातुं पित्तमदात्यये ॥ ४६ ॥ शशान् कपिञ्जलानेणान् लावानसितपुच्छकान् । मधुराम्लान् प्रयुञ्जीत भोजने शालिषष्टिकान् ॥ पटोलयूषमिश्रं वा छागलं कल्पयेन्द्रसम् । सतीनमुद्गमिश्रं वा दाड़िमामलकान्वितम् ॥ द्राचामलकखर्जूर-परूपकरसेन वा । कल्पयेत् तर्पणान् यूषान् रसांश्च विविधात्मकान् ॥ ५० ॥ आमाशयस्थमुक्लिष्टं कफपित्तं मदात्यये ।
ययचिकित्सितम्
विज्ञाय बहुदोषस्य तुड़ विदाहान्वितस्य च ॥ द्राचारसं तोये दत्त्वा तर्पणमेव वा ।
निःशेषं वामयेच्छीघ्रमेवं रोगाद् विमुच्यते ॥ ५१ ॥
दद्यात् । अथवा सशरं मद्य पित्तमदात्यये दद्यात् । अथवा माध्वीकमद्यसंयुक्तमपरं मयं दद्यात् । काले पिपासाकाले बहूदकं वा मद्यं पातु दद्यात् ।। ४९ ।।
गङ्गाधरः - भोजनार्थमाह-- शशानित्यादि । असितपुच्छकान् कालपुच्छकान गण्डरिकान मधुराम्लान भोजने प्रयुञ्जीत । अन्नार्थं शाल्यादीन् । पटोलेत्यादि । छागलं मांसरसं पटोलयूष मिश्र, पक्कपटोलद्रव इह पटोलयूषः । अथवा सतीनमुद्गमिश्रं छागलं मांसरसं दाडिमामलकान्वितं कल्पयेत् । द्राक्षेत्यादि । विविधात्मकान् तर्पणादीन् प्रत्येकम् ॥ ५० ॥
गङ्गाधरः- आमाशयस्थमित्यादि । मदात्यये त्रयो दोषाः कुप्यन्ति । तत्र बहुदोषस्य वृडादियुक्तस्य कफपित्तमामाशयस्थमुष्टि विज्ञाय तोये मद्यं द्राक्षारसञ्च दत्त्वाऽथवा तर्पणं सत्तुकादिकृतं दत्त्वा निःशेषं वामयेत् । एवं शीघ्र पित्तमदात्ययरोगाद् विमुच्यते ।। ५१ ।।
For Private and Personal Use Only
चक्रपाणिः - मथमित्यादिना पैत्तिके विधिमाह । सतीनो बलकलायः । रोगाद् विमुच्यत इति प्रकृत मदात्ययाद् विमुच्यत इत्यर्थः ॥ ४९–५१ ॥