________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२३८
चरक-संहिता। [मदात्ययचिकित्सितम् गुरु शीतं मृदु स्निग्धं मधुरं बहलं स्थिरम् । प्रसन्न पिच्छिलं श्लक्ष्णमोजो दशगुणं स्मृतम् ॥७॥ गौरवं लाघवात शैरमौष्ण्यादम्लस्वभावतः। माधुय्य मार्दवं तैदण्यात् प्रसादञ्चाशुभावनात् ॥ रौक्ष्यात् स्नेहं व्यवायित्वात् स्थिरत्वं श्लक्ष्णतामपि । विकाशिभावात् पैच्छिल्यं वैशयात् सान्द्रतां तथा। सौक्ष्म्यान्मयं निहन्त्येवमोजसः स्वगुणैर्गणान् ॥८॥ सत्त्वं तदाश्रयश्चाशु संक्षोभ्य कुरुते मदम्॥ रसवातादि 8-मार्गाणां सत्त्वबुद्धीन्द्रियात्मनाम् ।
प्रधानस्यौजसश्चैव हृदयं स्थानमुच्यते ॥ रोजसो दश गुणान् संक्षोभ्य चेतो विक्रियां नयति। मद्यस्य दश गुणानाहलघूष्णमित्यादि। ओजसो दश गुणानाह-गुत्यिादि ॥७॥
गङ्गाधरः--मद्य पीतं हृदयमाविश्य येन गुणेनौजसो यं गुणं संक्षोभयति तदाह-गौरवमित्यादि। मद्य पीतं हृदयमाविश्य स्वस्य लाघवादोजसो गौरवं निहन्ति। इत्येवंप्रकारेण स्वगुणर्मद्यमोजसो गुणान् निहन्ति ॥८॥
गङ्गाधरः-कथं चेतो विक्रियां नयतीत्यत आह-समित्यादि। सत्त्वं मनस्तदाश्रयं हृदयं चाशु संक्षोभ्य मद्य मदं कुरुते। कस्मात् ? रसेत्यादि। दशानामपि गुर्बादीनामोजोगुणानामवस्कन्दनकैः चेतः विक्रियां नयति । येन गुणेन मद्यस्य ओजो गुणः क्षीणो भवति तदाह-गुरुत्वं लाघवादित्यादि। प्रसादञ्चाशुभावनादिति प्रसादाख्याणं भाशुगत्वात् हन्ति। आशुगत्वञ्च यद्यपि प्रसादविरुद्धं न भवति तथापि प्रतिकूलतया ओजःप्रसादं हन्ति । तखाशुगुणत्वेन प्रसादो नश्यति इति ज्ञेयम्। व्यवायित्वात् स्थिरत्वमिति व्यवायित्वं व्यापकं तच्च स्थिरत्वं तद्विपरीतत्वादेव हन्ति । आशुगत्वव्यवायित्वयोश्चायं विशेष:-आशुगं शीघ्र गच्छति, व्यवायि तु सर्वव्यापकम् । विकासित्वं विकसनशीलत्वं स्थिरस्वादेव। श्लक्ष्णविपरीतत्वात् श्लक्ष्णतां हन्ति, एते विकासित्वाशुगत्वगुणा यद्यपि गुणगणनायां न पठितास्तथाप्यसंख्येयत्वाद् गुणानाम् एषामपि गुणत्वं सिद्धम्। ये तु तत्र पठितास्ते तावत् सिद्धतमा ज्ञेयाः ॥७॥
चक्रपाणि:--आश्रयोपघातात् आश्रितोपघातो भवतीति दर्शयन्नाह-सरवमित्यादि। सत्वस्य चेत आश्रयः। रसधात्वित्यादि। रसधात्वादिवहानां दशधमनीनां हृदयं स्थानम् , ररू बहा एव ** रसधात्वादीति चक्रसम्मतः पाठः।
--..-...-.-----...-..
For Private and Personal Use Only