________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४श अध्यायः ]
चिकित्सितस्थानम् ।
वातिकेभ्यो हितं मद्य प्रायो गौड़िकपैष्टिकम् | गुणैर्दोषैश्च तन्मद्यमुभयञ्चोपलक्ष्यते ॥ विधिना मात्रा काले हितैरन्नैर्यथाबलम् । प्रहृष्टो यः पिबेन्मद्यं तस्य स्यादमृतं यथा ॥ यथोपेतं पुनर्म' प्रसङ्गाद् येन पीयते । रूक्षव्यायामनित्येन विषवद् याति तस्य तत् ॥ ६ ॥ मद्यं हृदयमाविश्य स्वगुणैरोजसो गुणान् । दशभिर्दश संक्षोभ्य चेतो नयति विक्रियाम् ॥ लघुष्णतीक्ष्णसूक्ष्माम्ल - व्यवायाशुगमेव च । रूक्षं विकाशिविशदं मद्यं दशगुणं स्मृतम् ॥
३२३७
गङ्गाधरः - मद्यविशेषविधानमाह - वातिकेभ्य इत्यादि । वातिकेभ्यो नरेभ्यो हितं गौड़िकं पेंष्टिकञ्च मद्यं यत् तदुभयं मद्यमपि गुणैश्च दोषंश्चोपलक्ष्यते । कथं गुणैरुपलक्ष्यते तदाह - विधिनत्यादि । शरीरकृतसंस्कार इत्यादिना पृथिवीतले इत्यन्तेनोक्तेन विधिना । हितंगों कि पंष्टिक द्याविरोधिभि रन्नैरिति गुणैरुपलक्ष्यते । कथं दोषैरित्यत आह-यथोपेतमित्यादि । यथा येन प्रकारेण यद् यदा उपेतं मद्यं भवति तत् तथैव मद्यप्रसङ्गादेव येन रूक्षव्यायामनित्येन नरेण पीयते तस्य तन्मद्य ं विषवद् याति विषवद्भावमेति ॥ ६ ॥
गङ्गाधरः- मद्यस्य मदजननप्रकार माह – मद्यमित्यादि । स्वगुणैर्दशभि
For Private and Personal Use Only
यथोपपत्तिरिति यथापरिच्छेदोपपत्तिः । कफपित्तत्यादौ विपर्य्ययतन्त्रयुतया कफाधिक्येभ्यः araj पिसाधिकेभ्यो माकम् । मार्दीकं मृदीकाकृतं मधुकृतन्तु माधवम् । बहुद्रवमिति नानाविधद्रव्यसम्पादितम् । बहुगुणमिति मूारवक्ष्यमाणलध्वादिगुणं दोषकरच द्वितीयमद् इति भावः । विधिनेति यथोक्तविधिना । काल इति यस्य मद्यस्य य उचितगुणः कालः तस्मिन । हितैरन्नरिति मयहितैरन्नः । यथोपेतमिति यदेव मद्य तत् प्रसङ्गादिति आतयोगेन विषवादति मोहा विकार कर्तृत्वात् ॥ ५॥ ६॥
चक्रपाणिः - मद्य यथा मदयति तथा प्राह- मद्यमिति । दशभिरिति लध्वादिभिर्गुणैः
४०६