SearchBrowseAboutContactDonate
Page Preview
Page 1006
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४श अध्यायः] चिकित्सितस्थानम् । ३२३५ शरीरकृतसंस्कारः शुचिरुत्तमगन्धवान् । उद्दामगन्धिभिर्वस्त्रैरमलैर्वा यथानुगैः॥ विचित्रविविधस्त्रग्वी रत्नाभरणभूषितः। देवद्विजातीन् संपूज्य स्मृत्वा मङ्गलमुत्तमम् ॥ देशे यथत्तके शस्ते कुसुमप्रकरोकृते । संवाससम्मते मुख्य भूपसम्मोदभूषिते छ । सपधाने सुसंस्तीर्णे विहिते शयनासने। उपविष्टोऽथवा तिर्यक स्वशरीरसुखे स्थितः ॥ सौवर्णे राजतैश्चापि तथा मणिमयैरपि । भाजनैर्विविधैश्चित्रः सुकृतैश्च पिबेत् सदा॥ रूपयौवनमत्ताभिः शिक्षिताभिर्विशेषतः। वस्त्राभरणमाल्यैश्च भूषिताभिर्यथर्त्तकैः॥ शौचानुरागरक्ताभिः प्रमदाभिरितस्ततः । सञ्चार्यमाणमिष्टाभिः पिबेन्मद्यमनुत्तमम् ॥३॥ मयानुकूलहरितैः फलैहरितकैः शुभैः। लवणर्गन्धपिशुनरवदंशैर्यथः । भृष्टैमांसर्बहुविध-+-भूजलाम्बरचारिणाम् । पौरोगवर्गविहितैर्भक्ष्यैश्च विविधात्मकैः॥ गङ्गाधरः-विधिमाह-शरीरेत्यादि। यथर्नु के देशे यस्मिन् ऋतौ यो देश उपयुज्यते तस्मिन् देशे सदा यदा पातुकामस्तदा पिबेत् । रूपयौवनमत्तादिभिः प्रमदाभिरिष्टाभिरितस्ततः सञ्चाय॑माणं नीयमानमुत्तमं मद्य पिबेत ॥३॥ चक्रपाणिः-विधिना पिबेदित्यत्र विधिमाह-शरीरेत्यादि। शरीरे स्नानवस्वादिभिर्बाह्यः अन्तश्च प्रकृत्यायपेक्षया स्निग्धोष्गानादिभिः कृतः संस्कारो येन स शरीरकृतसंस्कारः। स्वशरीर • धूपसम्गोदबोधिते इति पाठान्तरम्। मृदुतावरवारिणा इति क्वचित् पाठः । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy