________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१५८ चरक-संहिता।
वर्णस्वरीयमिन्द्रियम् तिलकाः पिप्लवो व्यङ्गा राजयश्च पृथग्विधाः । आतुरस्याशु जायन्ते मुखे प्राणान् मुमुक्षतः॥ पुष्पाणि नखदन्तेषु पङ्को वा दन्तसंश्रितः। चूर्णको वापि दन्तेषु लक्षणं तद् गतायुषः ॥
ओष्ठयोः पादयोः पाण्योरक्षणोमूत्रपुरीषयोः। नखेष्वपि च वैवर्ण्यमेतज्जीर्णबले-8-ऽन्तकृत् ॥ ६ ॥ यस्य नीलावभावोष्ठौ पक्वजाम्बवसन्निभौ। मुमूर्षुरिति तं विद्यात् नरं धीरो गतायुषम् ॥ एको वा यदि वानेको यस्य वैकारिकः स्वरः । सहसोत्पद्यते जन्तो_यमानस्य नास्ति सः॥ यच्चान्यदपि किश्चित् स्याद् वैकृतं स्वरवर्णयोः ।
बलमांसविहीनस्य तत् सव्वं मरणोदयम् ॥१०॥ नखदन्तेषु व्याधितस्य यदि पुष्पाण्याशु भवन्ति दन्तसंश्रितश्च पङ्कः कहम इव क्लेदो भवति.किंवा चूर्णकश्वर्णरजोवद् दन्तेष भवति तद् गतायुषो लक्षणम्। ओष्ठयोरित्यादि । नखनयनवद नेत्यादिना व्याख्यातम् ॥९॥
गङ्गाधरः-- यस्येत्यादि। यस्यातुरस्य, न तु स्वस्थस्य, . प्रकरणात् । सुष्पष्टार्थखात् पूर्व न.व्याख्यातमिदं स्वयम्। स्वराधिकार याख्यातवान् तत्र श्लोकमाह--एको वेत्यादि। तत्रेत्यादिना व्याख्यातम् । यचान्यदपीत्यादि। वर्णारिष्टं यदन्यदपीत्यादिना व्याख्यातम् । तथैव स्वरविषये बोध्यम्। यदन्यदपि किञ्चित् स्वरवैकृतमभूतपूर्व सहसैवोत्पदात अनिमित्तमेव बलमांसहीनस्यातुरस्य तच्च सर्वमरिष्टमिति विद्यात् ॥१०॥
चक्रपाणिः---अयमेवार्थो गयोक्तः स्पष्टार्थं सुखग्रहणार्थञ्च श्लोकेनोच्यते यस्येत्यादिना। तिलका इत्यादौ मुख इति मुखे तथा मुखाभ्यन्तरे ॥ ९॥
चक्रपाणिः-ओष्ठाविति द्विवचनमुक्तापि यद 'उभौ' इति करोति, तेन सकलौष्ठव्याप्ति दर्शयति। मुमूर्षु रित्युक्तापि यत् गतायुषमिति करोति, तेन रिष्टयुक्तो मुमूर्षुर्गतायुरिति
* "क्षीणबले" इति चक्रः ।
For Private and Personal Use Only