________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१३६
चरक-संहिता। (जातिसूत्रीय शारीरम् खर्जरसञ्चैव तैलाथमुपदिश्यते ॥ पिप्पल्यः पिप्पलीमूलं वर्गों मधुरको मधु। शालपर्णी वृहत्यौ च घृतार्थमुपदिश्यते॥ सर्वगन्धैः प्रदहश्च गात्रेष्वक्ष्णोश्च शीतलैः । पुरीष कौक्कुट केशांश्चर्म सपेवचं तथा॥ जीर्णाश्च भिक्षसङ्घाटी धपनायोपकल्पयेत्। कुक्कुटी मकेटी शिम्बीमनन्ताश्चापि धारयत् ॥ मांसमामं तथा पक शोणितञ्च चतुष्पथे। निवेद्यमन्तश्च गृहे शिशो रक्षानिमित्ततः॥ शिशोश्च स्नपनं कुर्यात् सव्र्वगन्धादिकः शुभैः। कराला पिङ्गला मुण्डा कषायाम्बरवासिनी॥ देवी बालमिमं प्रीता संरक्षबन्धपूतना ॥६॥ ' अथातः शीतपूतनाप्रतिषेधं व्याख्यास्यामः। कपित्थं सुवहां विम्बी तथा विल्वं प्रतीबलाम्। नन्दी भल्लातकीश्चापि परिषेके प्रयोजयेत् ॥ वस्तमूत्रं गवां मूत्रं मुस्तञ्च सुरदारु च । कुष्ठश्च सर्वगन्धांश्च तैलार्थमवचारयेत्॥ रोहिणीवजेखदिर-पलाशककुभवचः। निःकाथ्य तस्मिन् निःकाथे सक्षीरं विपचेद् घृतम् ॥ गृध्रोलकपुरीपाणि वस्तगन्धामहेस्वचः। निम्बपत्राणि मधुकं धूपनार्थे प्रयोजयेत् ॥ धारयेदपि लम्बाश्च गुञ्जां काकादनी तथा। नयां मुदगकृतश्चान्नस्तर्पयेच्छीतपूतनाम् ॥ देव्यै देयश्चोपहारो वारुणी रुधिरं तथा। जलाशयान्ते बालस्य स्त्र पनञ्चोपदिश्यते॥ मुद्गौदनाशना देवी सुराशोणितपायिनी। जलाशयालया देवी पातु खां शीतपूतना ॥७॥ ___ अथातो मुखमण्डिकाप्रतिषेधं व्याख्यास्यामः। कपित्थविल्वतर्कारीवांशीगन्धर्वहस्तकाः। कुबेराक्षी च योज्याः स्युर्बालानां परिषेचने । स्वरसभृक्षाणां तथाजह रिगन्धयोः। तैलं वसाञ्च संयोज्य पचेदभ्यञ्जन शिशोः ॥ मधुलिकायां पयसि तुगाक्षीय्यां गणे तथा। मधुरे पञ्चमूले च कनीयसि घृतं पचेत् ॥ वचा सज्जरसः कुष्ठं सर्पिश्चोळू पने हितम्। धारयेदपि जिह्वाश्च चापचीरल्लिसर्पजाः॥ वर्णकं चूर्णकं माल्यमञ्जनं पारदं तथा। मनःशिलाञ्चोपहरेद्गोष्ठमध्ये बलिं तथा ॥ पायसं सपुरोडाशं बल्यर्थमुपहारयेत्। मत्रपूताभिरद्भिश्च तत्रैव स्नपनं हितम् ॥ अलङ्क ता रूपवती सुभगा कामरूपिणी। गोष्ठमध्यालयरता पातु खां मुखमण्डिका ।। ८॥
अथातो नैगमेयपतिषेधं व्याख्यास्यामः। विल्वाग्निमन्थपूतीकाः कार्याः स्युः परिषेचने। सुरासोचीरधान्याम्लैः परिषेकश्च शस्यते॥ प्रियङ्गसरलानन्ता-शतपुष्पाकुटन्नटैः। पचेत् तैलं सगोमूत्रैर्दधिमस्खम्लकाजिकैः ।। पञ्चमूलद्वयकाथे क्षीरे मधुरकेषु च। पचेद् घृतश्च मेधावी खजूरी
For Private and Personal Use Only