________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
शारीरस्थानम् ।
२१३१ ___ यदि त्वातुय्यं किञ्चित् कुमारमागच्छेत्, तत् प्रकृतिनिमित्तपूर्वरूपलिङ्गोपशयविशेषैस्तत्त्वतोऽनुबुध्य सर्वविशेषानातुरौषध. देशकालाश्रयानवेनमाणश्चिकित्सितुमारभेतनं मधुरमृदुलघुसुरभिशीतसङ्करं * कर्म प्रवर्तयन्। एवंसात्म्या हि कुमारा भवन्ति, तथा ते शर्म लभन्तेऽचिराय। नोपमारुतवर्षेषु रजोधूमोदकेषु च॥क्षीरसात्म्यतया क्षीरमाज गव्यमथापि वा। दद्याद आ स्तन्यपर्याप्तेर्वालानां वीक्ष्य मात्रया॥ षण्मासञ्चैनमन्नं प्राशयेल्लघु हितश्च नित्यमवरोधानारतश्च स्यात् कृतरक्ष उपसर्गभयात्। प्रयत्नतश्च ग्रहोपसर्गेभ्यो रक्ष्या बाला भवन्ति ॥ इति ॥ ५६ ॥ ___ अथास्यातुर्यप्रतिकारार्थमाह --यदि लातुर्यमित्यादि। आतुर्य व्याधितबम्। तत् कुमारस्यातुय्यम्। प्रकृतिर्वातादिदोपदूष्यरूपा, निमित्तं, वाह्यकारणम्, रुक्षादिस्तन्यादिकं पूर्वरूपम्, लिङ्गं रूपम्, उपशयश्च, तेषां विशेषै. यस्य व्याधेर्या प्रकृतिर्यन्निमित्तं यत् पूर्वरूपं यल्लिङ्गं यश्चोपशयस्तेषां स्तद्विशेषै. स्तत्त्वतो यथार्थतोऽनुबुध्य शाखा आतुरस्य व्याधिविशेष प्रकृतिविशेष बलविशेषमेवमादि। औषधस्य तीक्ष्णखादिवीर्यविशेषं मानविशेष रसविशेषमेवमादि। देशस्य साधारणखजाङ्गलखानपखादिविशेषम् । कालस्य नित्यगस्य वसन्तादितदाद्यसमध्यबान्तवादिनाथमध्यखान्तादिविशेषमिति आतुरोषधदेशकालाश्रयान् सर्वविशेषानवेक्षमाण एनं कुमारमातुरं चिकित्सितुं मधुरादिसङ्करं मधुरादिमिलितं कर्म प्रवर्तयन् आरभेत। कस्मात् मधुरादिसङ्करं कम्म प्रवत्तेयन्नारभेतेत्यत आह-एवंसात्म्याहीत्यादि। हि यस्मात् कुमारा एवं मधुरमृदुलघुमुरभिशीतसङ्करसात्म्या भवन्ति, तस्यान्मधुरादिसङ्करं कर्म प्रवत्तयन् नारभेत। तथा तेन प्रकारेण ते कुमारा अचिराय शीघ्र शर्मा सुखं लभन्ते।
सुश्रुतेऽप्युक्तं-धात्रवास्तु गुरुभिभौज्यै विषमैदोषलैस्तथा। दोषा देहे प्रकुप्यन्ति ततः स्तन्यं प्रदुष्यति ॥ मिथ्याहारविहारिण्या दुष्टा वातादयः स्त्रियाः। दूषयन्ति पयस्तेन शारीरा व्याधयः शिशोः॥ भवन्ति
तदित्यादौ प्रकृतिर्वातादयः। निमित्तं वाहंघ रुक्षादि साक्षात् वातादिकारणम्। सर्वविशेषानित्यादौ 'आतुर'शब्देनातुर्यहेतुर्व्याधि ह्यते। 'आश्रय'शब्देन तु शरीरम् । शं कल्याणं
* शीतशङ्करमिति चक्रः।
For Private and Personal Use Only