SearchBrowseAboutContactDonate
Page Preview
Page 969
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१३० चरक-संहिता। जातिसूत्रीयं शारीरम् - क्रीडनकानि त्वस्य विचित्राणि घोषवन्त्यभिरामाणि चागुरूणि चातीपणापाणि चानास्यप्रवेशीनि चाप्राणहराण्यवित्रासनानि स्युः। न ह्यस्य विनासनं साधु । तस्मात् तस्मिन् रुदत्यभुञ्जाने वान्यत्र विधेयताम् अगच्छति राक्षसपिशाचपूतनाद्यानां नामानि चाह्वयता कुमारस्य वित्रासनार्थ नामग्रहणं न कायं स्यात् ॥ ५६ ॥ स्युः। तथा ऐन्द्रप्राधा उक्ता याः पूर्वमतः ऐन्द्रीं ब्राह्मी मित्यादिना धात्रया धारणीयाः । एवं जीवकर्षभको तथान्यानि च धारणीयानि ॥५५॥ ___ अथ बालस्य क्रीडाथं द्रव्याणि कीदृशानि स्युरित्यत आह-क्रीड़नकानि वित्यादि। बालस्य क्रीडनमेभिरिति तानि क्रीड़नकानि। चित्रण कृतविचित्राणि घोषवन्ति शब्दवन्ति तेन बाला हृष्यन्ति। अगुरूणि पत्तलानि कुमारो यदुत्तोलनक्षेपणादिषु शनोति। अतीक्ष्णाग्राणि तीक्ष्णाग्राणि हि बालं हिंस्युः। अनास्यप्रवेशीनि कुमारस्य मुखे प्रवेशार्हाणि न भवन्ति यानि कुमारो न गिलितु शक्नोति। अपाणहराणि विषाद्यनाक्तानि हीरकविषादिमाणहरद्रव्याकृतानि । अवित्रासनानि कुमारस्य त्रासाजनकानि। ननु कथमवित्रासनानि क्रीड़नकानि कृयुर्वालो यदि रोदिति नदति न पिबति न भुङ्क्ते तदा लोके केनचित् वित्रासनेन बालं वित्रास्य शान्तं कुरुते, मौनश्च पाययेत् भोजयेच्चैवमादि इत्यत आह-न ह्यस्येत्यादि। अस्य कुमारस्य यस्माद्वितासनं न साधु, तस्मात् तस्मिन् कुमारे रुदति वाप्यभुञ्जान वान्यत्र विधेयतामगच्छति नदति चापिवतीत्येवमादौ सति तूष्णीम्भावदुग्धपानादिकर्त्तव्यतामगच्छति न कुर्वति राक्षसादीनां नामान्याह्वयता पुरुषेण स्त्रिया वा कुमारस्य वित्रासनाथ तेषां राक्षसादीनां वित्रासजनकानां नामग्रहणं न कार्यम् । सुश्रुतेऽप्युक्तं-बालं पुनर्गात्रसुखं गृह्णीयात् । न चैनं तर्जयेत् सहसा न प्रतिरोधयेत् वित्रासभयात् सहसा नापहरेदुवक्षिपेद्वा वातादिविघातभयात् नोपवेशयेत् कोन्ज्यभयात् । नित्यञ्चैनमनुवत्तेत प्रियशतैरजिघांमुः । एवमनभिहतमनास्वभिवद्ध ते नित्यमग्रासत्त्वसम्पन्नो नीरोगः सुप्रसन्नमनाच भवति। वातातपविदुरत्प्रभापादपलताशून्यागारनिम्नस्थानगृहच्छायादिभ्यो दुन होपसर्गतश्च बालं रक्षेत्। नाशुचौ विसृजेदालं नाकाशे विषमे न च । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy