________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१२६
चरक संहिता ।
| जातिसूत्रीयं शारीरम्
पानाशनविधिस्तु दुष्टतीराया यवगोधूमशालिषष्टिकमुद्गहरेणुककुलत्थसुरासौवीरक-- मैरेयमेदकल सुनकर अप्रायः स्यात् । चोरदोषविशेषांश्चावे दयावेच्य तत्तद् विधानं कार्य्यं स्यात् । पाठामहौषधसुरदारुमुस्तमृगुड़ चीवत्सकफल किराततिक्तकटुकरोहिणीशारिवाकषायाणाञ्च पानं प्रशस्यते । तथान्येषां तिक्तकषायकटुकमधुराणां द्रव्याणां प्रयोगः । इति नीरविशोधनानि उक्तानि भवन्ति । नीरविकारविशेषानभि समीक्ष्य मात्रां कालञ्च । इति नीरविधानानि ॥ ५० ॥
नीरजननानि तु मद्यानि सीधुवज्र्ज्यानि ग्राम्यानूपौदकानि च शाकधान्यमांसानि द्रवमधुराम्ल भूयिष्ठाश्चाहाराः नीरिण्यश्च औषधयः चीरपाणञ्चानायासश्च वीरणषष्टिकशालिकेतुबालिकादर्भकुशकाशगुन्द्र तूकटमूलकषायाणाञ्च पानम् । इति चीरजननान्युक्तानि ॥ ५१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गङ्गाधरः - पानाशनेत्यादि । दुष्टक्षीराया धात्राः । क्षीरदोषविशेषांश्च वातादीन वेक्ष्यावेक्ष्य यवादीनां भक्ष्यविधानं काय्र्यं स्यादित्यर्थः । पानविधानमाह - पाठेत्यादि । तथान्येषां प्रयोग इत्यन्वयः । क्षीरविकारमभि लक्ष्यीकृत्य मात्रां कालञ्च समीक्ष्य तत्तद्विधानं कार्य्यमित्यर्थः ॥ ५० ॥
गङ्गाधरः- क्षीरदोषप्रतिकारमुक्त्वा क्षीरजननविधिमाह - क्षीरजननानि खित्यादि । सीधवज्र्ज्यानि मद्यानि ग्राम्यादीनि च शाकानि धान्यानि मांसानि च । द्रवादिभूयिष्ठा आहाराश्च, क्षीरिण्यच वटोडुम्बरादयः । वीरणादीनामित्कटान्तानां मूलस्यैकशः कषायाणां पानं बहुवचनात् । एतयोः क्षीरदोष क्षीरदोषप्रतिकारयोः प्रकारा विस्तरेण योनिव्यापदि वक्ष्यन्ते ॥ ५१ ॥
दूष्यसंमूर्च्छनप्रभावाज्ज्ञेयम्, येन श्लेष्मदृष्टे लवणरसता भवति । एतत्पृथग्लक्षणयोगाच्च द्वन्द्वसन्निपातदृष्टिर प्युन्नेया । चिकित्सामाह - एषामित्यादि । प्रतिप्रतिविशेषमभिसमीक्ष्येति प्रतिप्रतिवातादीनां कोष्ठाश्रयित्वोदीर्णत्वादि शोधनानुगुणविशेषमिति, चिह्नविशेषादपि धात्रीमपेक्ष्य वमना* इतः परं तुपोदक इत्यधिकः क्वचित् ।
For Private and Personal Use Only