________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२११६
चरक-संहिता। (जातिसूत्रीय शारीरम् पानविशदमनुरक्तप्रहृष्टजनसम्पूर्णञ्च तद्वेश्म कार्यम् । ब्राह्मणश्चाथर्ववेदवित् सततमुभयकालं शान्तिं जुहुयात् स्वस्त्ययनार्थ सुकुमारस्य तथा सूतिकायाः । इत्येतद् रक्षाविधानमुक्तम् ॥ ४२
सूतिकान्तु खलु बुभुक्षितां विदित्वा स्नेहं पाययेत् प्रथम परमया शतया सर्पिस्तैलं वसां मज्जानं वा साम्यीभावमभिसमीक्ष्य भिषक पि पलीपिप्पलीमूलचव्यचित्रकशृङ्गधेरचूर्णसहितम्। स्नेहं पीतवत्याश्च सर्पि स्तैलाभ्यामभ्यज्य वेष्टयेदुदरं महता वाससा। तथा अस्या न वायुरुदरे विकृतिमापादयति अनवकाशत्वात् । जीणे तु स्नेहे पिम्पल्यादिभिरेव सिद्धां यवागू सुस्निग्धां अविरतानि प्रदानादीनि यत्र तदनुपरतपदानादि। अन्नपानविशदम् अन्नेन पानेनावदातं । तद्वेश्म मूतिकागारम् । सुकुमारस्य स्वस्त्ययनार्थ तथा मूतिकायाः वस्त्ययनार्थम्। सुश्रुतेऽप्युक्तम् -अथ वालं क्षौमपरिहतं क्षोमवस्त्रास्तृतायां शय्यायां शाययेत्। पीलुबदरीनिम्बपरुषकशाखाभिश्चैनं वीजयेत् । मूट्टि चास्याहरहस्तैलपिचुमवचारयेत्। धूपयेच्चैनं रक्षोन धपैः। रक्षोनानि चास्य पाणिपाद शिरोग्रीवास्वव सृजेत् । तिलातसीसर्षपकणांश्चात्र प्रकिरेत् । अधिष्ठाने चाग्निं प्रज्वालयेत् । व्रणितोपासनीयञ्चावेक्षेत इति ॥४२॥
गङ्गाधरः--मूक्किान्वित्यादि। प्रथमं प्रथमदिनावधि सपिर्वा तैलं वा वसा वा मज्जानं वा स्नेहं पाययेत् परमया शक्त्या। सपिरादीनां सात्म्यीभावं मूतिकाया अभिसमीक्ष्य पिप्पल्यादिचूर्णसहितं स्नेहं सर्पिराद्यन्यतमं पाययेत् । तच्च पीतवत्याः मूतिकाया उदरं महता वाससा वस्त्रेण वेष्टयेदिति । अस्य फलमाह-तथेत्यादि। तेन प्रकारेण अस्या अवकाशमप्राप्य उदरे बायुने विकृतिमापादयति। कस्मादित्यत आह-अनवकाशखादिति । वस्त्रवेष्टनेन 'रक्षोनसमाख्यातानाम्" इत्यनेन गुग्गुल्वादीन ग्राहयति । उत्तरदेहल्यामिति द्वारोपरि, अन्ये तु देहली द्वाराधःकाष्ठमाहुः ॥ ४११४२ ॥
चक्रपाणिः-कुमारस्य जातकर्माभिधाय सूतिकायाः कर्त्तव्यमाह--सूतिकान्त्वित्यादि। धुभुक्षितामित्यनेन यावता कालेन बुभुक्षिता भवति, तदा स्देहपानं कर्त्तव्यम् । परमया शक्तपति उत्तमया शक्तया लक्षिता स्नेहं पिबेत, यावता स्नेहेन बलविरोधो न भवति तावन्मानं स्नेह पिबेदित्यध्याहृतम्। साम्यीभावमभिसमीक्ष्येति सर्पिरादिषु यद् यस्याः सात्म्यम्, तत् तस्यै
For Private and Personal Use Only