________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१०२
चरक-संहिता। जातिसूत्रीयं शारीरम् कण्डयनं वर्जयेत् त्वगभेदनवैरूप्यपरिहारार्थम् । अशक्यायान्तु कण्डाम् उन्मईनोद्घर्षणाभ्यां परिहारः स्यात् । मधुरमाहारजातं वातहरम् अल्पमल्पस्नेहलवणमल्पोदकानुपानञ्च भुञ्जीत॥२६॥
अष्टमे मासे नीरयवागं सर्पिष्मती काले काले पिवेत् । तन्नेति भद्रका-यः, पैङ्गल्याबाधो ह्यस्या गर्भमागच्छेदिति । अस्त्वत्र पैङ्गल्यावाध इत्याह भगवान् पुनर्वसुरात्रेयः। न होतदकार्य्यम् । एवं कुर्वती ह्यारोग्यबलवर्णस्वरसंहननसम्पदुपेतं ज्ञातीनामपि श्रेष्ठमपत्यं जनयति। नवमे खल्वेनां मासे अम्भसा । जातकण्डूरुपस्थितकण्ड्या च । किमर्थ कण्डूयनं वर्जयेदित्यत आहलगभेदैत्यादि। अशक्यायामसह्यायाम् । उन्मईनम् उद्घर्षणं वा कृता कण्डूपरिहारः कार्यः स्यात्। मधुरमित्यादि क्षीरेत्यादुधक्तम् ॥२९॥ ___ गङ्गाधरः-अष्टमे इत्यादि । क्षीरयवागू क्षीरेण चतुर्दशगुणेन षड़ गुणेन वा पका क्षुद्रतण्डुलानां यवागू मण्डं पेयां वा सर्पिष्मती घृतप्रक्षेपां काले काले यथाकाले पिवेत् । तन्नेति भद्रकाप्य इत्यादि । अष्टममासे सर्पिष्मती क्षीरयवागून पिवेदित्याह। कस्मात् ? पैङ्गल्यावाध इत्यादि। हि यस्मादस्या गर्भिण्याः पैङ्गल्यावाधः पैङ्गल्यस्य पिङ्गलनेत्रताया आबाधो गर्भमागच्छेत् गर्भ स्यापि पिङ्गलनेत्रता स्यात् । ननु पित्तेऽत्यर्थ प्रदुष्टे तु नेत्रयोः पिङ्गता भवेदिति शालाक्यवचनात् कथं क्षीरयवागूपानात् पैङ्गल्यावाधः स्यादिति चेन्न । अष्टमे हि मासे गर्भिण्याः क्षीरयवागूपानस्य प्रभावात् पैङ्गल्यजनकखमिति । मतमेतद् दृषयति-अस्वत्रेत्यादि। पैङ्गल्याबाधोऽस्तु गर्भस्य भवतु, सचन क्षतिकर।कस्मात् ? हि यस्मात् एवमष्टमे मासि सर्पिष्मत्क्षीरवागूपानं कुर्वती गर्भिणी स्वयमरोगा सती आरोग्यादिसम्पदुपेतं ज्ञातीनां मध्ये श्रेष्ठमपत्यं जनयति। एतन्नकार्य न तु भवति । महाफलमेतत् कार्यमेव पिङ्गलनेत्रखमल्पं न किञ्चित्करम् । तेन किम् चर्मविदरणम्। स्तनावुदरञ्च स्तनोदरम्। कोलं बदरी। परिहारः कण्डा इति शेषः । पैङ्गल्यं पिङ्गलनेत्रता, सा च यद्यपि पित्तकृता, यदुक्तं शालाक्ये "पित्तेऽत्यर्थे प्रदुष्टे तु नेत्रयोः पिङ्गता स्मृता" इति, तथापीह अष्टममासीयगर्भ क्षीरयवाग्वाहारसम्भवप्रभावादेव पैङ्गल्यं भवतीति ज्ञेयम्। न त्वेवैतन्न कार मिति पैङ्गल्यस्याल्पदोषत्वादुत्तरकालं सुकरप्रतिक्रियत्वाच्च क्षीरयवागू.
* न त्वेवैतन्न कार्यमिति पाठान्तरम् ।
For Private and Personal Use Only