________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१००
चरक-संहिता। जातिसूत्रीयं शारीरम् .. परमतो निर्विकारमा यायमानस्य गर्भस्य मासे मासे कर्म उपदेष्यामः। प्रथममासे शङ्किता चेद् गर्भमापन्ना क्षीरमनुपस्कृत मात्रावच्छीतं काले पिबेत् । सात्म्यश्च भोजनं सायं प्रातश्च भुञ्जीत। द्वितीये मासे क्षीरमेव च मधुरौषधसिद्धम्, तृतीये मासे क्षीरं मधुसर्पिामुपसंसृज्य, चतुर्थे मासे तु क्षीरनवनीतमनमात्रमश्नीयात् ; पञ्चमे मासे क्षीरसर्पिः,षष्ठे मासे क्षीरसर्पिर्मधुरेवेति गर्भशल्यनिहरणदिनमेव । सुश्रुतेऽप्युक्तम्-एवं निह तशल्यान्तु सिञ्चेदुप्णेन वारिणा । ततोऽभ्यक्तशरीराया योनौ स्नेह निधापयेत् । एवं मृद्वी भवेद योनिस्तच्छलञ्चोपशाम्यति। कृष्णातन्मूलशुण्ठेरला-हिङ्गुभार्गीसदीप्यकाः । वचामतिविषां रास्त्रां चव्यं सञ्चयं पाययेत् । स्नेहेन दोषस्यन्दार्थ वेदनोपशमाय च। काथञ्चैषां तथा कल्कं चूर्ण वा स्नेहवर्जितम् । शाकखगग्वितिविषा-पाठाकटुकरोहिणीः। तथा तेजोवतीञ्चापि पाययेत् पूर्ववद भिषक । त्रिरात्रं पञ्चसप्ताहं ततः स्नेहं पुनः पिबेत्। पाययेद्वासवं नक्तमरिष्टं वा मुसंस्कृतम्। शिरीषककुभाभ्याश्च तोयमाचमने हितम् । उपद्रवाश्च येऽन्ये स्युस्तान् यथास्वमुपाचरेत्। सर्वतः परिशुद्धा च स्निग्धपथ्याल्पभोजना । स्वेदाभ्यङ्गपरा नित्यं भवेत् क्रोधविवर्जिता। पयो वातहरैः सिद्धं दशाहं भोजने हितम् । रसं दशाह शेषे तु यथायोगमुपाचरेत्। व्युपद्रवां विशुद्धाश्च शाखा च वरवर्णिनीम्। ऊर्द्ध चतुभ्यो मासेभ्यो विसृजेत् परिहारतः। योनिसन्तर्पणे. ऽभ्यङ्गे पाने वस्तिषु भोजने। बलातैलपिदं वास्यै दद्यादनिलवारणम् ॥ बलामूलकषायस्येत्यादिना बलातैलं बोध्यं मुश्रुते ॥२७॥२८॥ .
गङ्गाधरः-परमत इत्यादि। अतः परम् एतदनन्तरम्। प्रथममासे गर्भमापना आपन्नगर्भतया लोकेऽनुभूता चेद्भवति । अनुपस्कृतमौषधैरसंस्कृतमेव । सायमिति सन्ध्यातीते निशामुखे, प्रातरिति पूर्वभोजनकाले। द्वितीये मासे इत्यादिमधुरौषधं काकोल्यादि, तदष्टांशकल्कचतुर्गुणजलसिद्धम् । तृतीये इत्यादि-- मधुसपिामुपसंमृज्य सम्यगालोड्य मिश्रीकृत्य । चतुर्थे मासे इत्यादि-क्षीरनवनीतं क्षीरमन्थनोद्भूतं नवनीतं, न तु दध्युत्थम् । पञ्चमे इत्यादि-क्षीरसपिः प्रति सम्यकसाधनता नास्तीति दर्शयति । दोषधातुक्ले दविशोषणमात्रं कालमित्यनेन दोषधातु. क्लेदविशोषणावधि तां यथोक्तक्रमस्य दर्शयति ॥२५-२८॥ .
For Private and Personal Use Only