________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०१८
चरक-संहिता। [जातिसूत्रीयं शारीरम् तस्य गर्भशल्यस्य जरायुप्रपातनं कर्म शमनमित्याहुरेके। मन्त्रादिकमथर्ववेदविहितमित्येके। परिदृष्टकर्मणा शल्यहा आहरणमित्येके ॥ २६ ॥ वस्तमारविपन्नायाः कुक्षिः प्रस्पन्दते यदि। तत्क्षणाजन्मकाले तं पाटयिखोद्धरेद भिषक् । इति ॥२५॥
गङ्गाधरः-अथास्या मृतगर्भायाचिकित्सामाह--तस्येत्यादि । गर्भशल्यस्य गर्भाशयान्तमृतशिशुरूपशल्यस्य शमन शान्तिकरं जरायुपपातनं यच्चाकृतिजरायुणा गौ वेष्टितः सन्नन्तगर्भ वर्त्तते तस्य जरायोनिगमनमित्येके वदन्ति । अन्ये त्वेकेऽथर्ववेदविहितं मत्रादिकर्म तस्य गर्भशल्यस्य शमन मित्याहुः। परे त्वेके परिदृष्टकर्मणा सर्वतोभावेन दृष्टं गर्भशल्याहरणं कर्म येन तेन शल्यहा शल्याहरणशीलेन भिषजा तस्य गर्भशल्यस्याहरणं शमनमित्याहुः । त्रयमेवैतदप्रतिषिद्धवादनुमतमाचार्यण। गर्भशल्यापहरणमुक्तं सुश्रुते-नातः कष्टतममस्ति यथा मूढगर्भशल्योद्धरणम् । अत्र हि योनियकृतप्लीहाबविवरगर्भाशयानां मध्ये कर्म कर्त्तव्यं स्पर्शन। उत्कर्षणापकर्षणस्थानापवर्तनोत्कर्तनभेदनच्छेदनपीड़नज्जू करणदारणानि चैकहस्तेन गर्भ गर्भिणी वा अहिंसता। तस्मादधिपतिमापृच्छा परश्च यत्नमास्थायोपक्रमेत । तत्र समासेनाष्टविधा मूढगर्भगतिरुद्दिष्टा। स्वभावगता अपि त्रयः सङ्गा भवन्ति, शिरसो वैगुण्यादंसयोधनस्य चा। जीवति तु गर्भ मूतिकागर्भनिहरणे प्रयतेत । निहत्तु मशक्ये च्यवनान मन्त्रानुपशृणुयात्। तान् वक्ष्यामः। इहामृतश्च सोमश्च चित्रभानुश्च भामिनि। उच्चैःश्रवाश्च तुरगो मन्दिरे निवसन्तु ते॥ इदममृतमपां समुद्धतं वै तव लघु गर्भमिमं प्रमुञ्चतु स्त्री। तदनलपवनार्कवासवास्ते सह लवणाम्बुधरैर्दिशन्तु शान्तिम् ॥ मुक्ताः पाशा विपाशाश्च मुक्ताः मुरायण रश्मयः। मुक्तः सर्वभयाद गर्भ एहोहि विरमावितः ॥ औषधानि च विदध्यात् यथोक्तानि । मृते चोत्तानाया आभुग्नसक्थ्या वस्त्राधारकोबमितकट्या धन्वनन गत्तिकाशाल्मलीमृत्स्नाघृताभ्यां म्रक्षयित्ता हस्तं योनौ प्रवेश्य गर्भमुपहरेत्। तत्र सथिभ्यामागतमनुलोममेवाञ्छेत् । एकसक्थिप्रपन्नस्येतरसथि प्रसाापहरेत् । स्फिग्देशेनागतस्य स्फिगदेशं प्रपीड्य ऊद्ध - मुक्षिप्य सक्थिनी प्रसार्यापहरेत्। तिय्यंगागतस्य परिघस्येव तिरश्चीनस्य 'एके' इति वचनेन अप्रतिषेधेन च दुश्चिकित्स्यव्याधेर्जरायुपातनकर्मादीनां त्रयाणामपि मृतगर्भापहरणं
For Private and Personal Use Only