SearchBrowseAboutContactDonate
Page Preview
Page 925
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०८६ चरक-संहिता। (जातिसूत्रोयं शारीरम् शीलं वा, अमर्षिणी चण्डमौपाधिकमसूयकं वा, स्वप्ननित्या तन्द्रालुमबुधमल्याग्निं वा, मद्यनित्या पिपासालुमनवस्थितचित्तं वा, गोधामांसप्रिया शार्करिणम् आश्मरिलं शनमें हिणं वा। वराहमांसप्राया रक्तानं क्रथनमतिपरुषरोमाणं वा, मत्स्यमांसनित्या चिरनिमिषं स्तब्धाचं वा, मधुरनित्या प्रमेहिणं मूकमतिस्थूलं वा। अम्लनित्या रक्तपित्तिनं वगक्षिरोगिणं वा, लवणनित्या शीध्रबलिपलितखालित्यरोगिणं वा, कटुकनित्या दुर्बलमल्पशुक्रमनत्यं वा, तिक्तनित्या शोषिणमबलमपचितं वा, कषायनित्या श्यावम् आनाहिनमुदावर्त्तिनं वा। यद् यच्च यस्य यस्य व्याधेनिमित्तमुक्तं तत् तदासेवमानान्तवनी तन्निमित्तविकारबहुलमेवापत्यमुपजनयति । पितृजास्तु शुक्रदोषा अमर्षिणी क्रोधशीला। चण्डं क्रोधशीलम् । औपाधिकमुपाधिश्छद्मचरणं तेन व्यवहरतीत्यौपाधिकं छद्मचारिणम्, स्वमनित्या सततनिद्राशीला तन्द्रालु तन्द्रायुतम, मद्यनित्या सततमद्यपा अनवस्थितचित्तं चञ्चलचित्तम् । गोधा स्वर्णगोषिका। शारिणं शर्कराख्यरोगयुक्तम् आश्मरिलमश्मरीरोगयुक्तं, वराहमांसपाया प्रायेण वराहमांसाशना, क्रथनं कथयति अकस्मादुच्छासरोधं करोति तं तथा, मत्स्यमांसनित्या मत्स्यनित्या मांसनित्या वा मत्स्यमांसोभयनित्या वा चिरनिमिषं चिरेण निमेषक्षेपो यस्य तं तथा, स्तब्धाक्षमतिचिरनिमिषम्, खगक्षिरोगिणं खग्रोगिणमक्षिरोगिणं वा, खालित्यमिन्द्रलुप्तं टाक इति लोके। अपचितं कृशम्। श्यावं धूम्रवर्णम्। आनाहिनं पुरीपबन्धकोष्ठम् । अनुक्तमुपसंहरन्नाह-यच्चेत्यादि। अन्तर्वनी गर्भिणी। ननु मातुरेवाहाराचारनिमित्तं किं गर्भस्योपहननं न पितुरित्यत आहद्रोहणशीला। औपाधिकं शाध्यप्रचारिणम्। क्रथनमकस्मादुच्छासावरोधम् । मधुरनित्येति गर्भिणीविहितं श्रीरं विहायान्यमधुराण्यनुसेविनी बोद्धच्या, क्षीरस्य विहितत्वेन प्राशस्त्यम् । तत्र सात्म्यानामपि रसानामत्यर्थोपयोगे दोपमभिधाय यत् पुनर्मचादीनामत्यर्थ सेवने पृथग दोषं बने, तत् प्रभावस्य दोपविशेषाभिधानार्थमिति ज्ञेयम्। यदवस्तुसेवया ये च विकारा गर्भस्योचित निदाना दृश्यन्ते, ते तावदुचितोत्पादा एव। यथा-निद्रातिसेवया तन्द्रालुः, अम्लेन For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy