SearchBrowseAboutContactDonate
Page Preview
Page 924
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८म अध्यायः शारीरस्थानम् । २०८५ प्रमिताशनसेविन्या गर्भो म्रियतेऽन्तः कुक्षः, अकाले वा नसते शोपी वा भवति। तथाभिघातप्रपीड़नैः श्वभ्रकूपप्रपातदेशावलोकनैर्वा अभीक्ष्णं मातुः प्रपतत्यकाले, तथातिमात्रसंक्षोभिभिर्यानरप्रियातिमात्रश्रवणैर्वा। प्रततोत्तानशायिन्याः पुनर्गर्भस्य नाभ्याश्रया नाडी कण्ठमनुवेष्टयति। विवृतशायिनी नक्तश्चारिणी चोन्मत्तं जनयति, अपस्मारिणं पुनः कलिकलहाचारशीला, व्यवायशीला दुर्वपुषम् अह्रीकं स्त्रैणं वा, शोकनित्या भीतमपचितमांसमल्पायुषं वा, अभिध्यात्री परोपतापिनमीप्यु स्त्रैणं वा, स्तेना त्वायालबहुलमतिद्रोहिणमकर्मप्रमिताशनमत्यल्पमिताशनम्। कुक्षेर्गर्भाशयस्यान्तमध्ये म्रियते । ससतेऽधस्तात् पतति। शोपी शुष्करूपो वा भवति । अभिघातोऽभिहननं दण्डादिभिः, पपीड़नम् उपमईनादिकम्। श्वभ्रदेशः गर्तयुक्तदेशस्तत्रापि अतिगर्तवात कूपरूपो देशः। प्रपातदेशः प्रपतत्यस्मादिति पर्वतादुरच्चदेशः। तेषां मातुरभीक्ष्णम् आलोकनेनैवाकाले गर्भः प्रपतति । अतिमात्रसंक्षोभिभिरतिमात्रगावचालनकरैर्यानः, अप्रियाणां शब्दानामतिमात्रश्रवणैः प्रपतत्यकाले इत्यन्वयः । प्रततं निरन्तरमुत्तानशायिन्याः पुनर्गर्भस्य नाभ्याश्रया नाड़ी गर्भस्य कण्ठमनुवेष्टयति। वितशायिनी हस्तपादौ सर्वाङ्गश्च विस्तीर्य शयनशीला, नक्तं रात्रौ चारिणी, कलिर्चाचा कलहः, कलहः शरीरेण कलहस्तौ शीलयति सततं करोति या सा कलिकलहशीला अपस्मारिणं जनयति। व्यवायशीला प्रायेण गर्भवती व्यवायं शीलयति या सा दुर्ध्वपुषं दुर्निन्दितदेहमपत्यं जनयति अहीकमलज्जं स्त्रैणं स्त्रीवशं वा। शोकनित्या शोकः सततो यस्याः सा भीतमपत्यमपचितमांसं कुशमपत्यं वाल्पायुषमपत्यं वा जनयतीत्यन्वयः। अभिध्यात्री परस्वविषयं सततं वाञ्छन्ती। स्तेना चौर्यशीला गर्भवती। चक्रपाणिः--बालस्याचिरजातस्थापि 'गर्भ'व्यपदेशो भवतीति । तेन कुक्षेर्वहिरपि मरणसम्भवे 'अन्तः कुक्षेः' इति विशेषणमुपपन्नम्। प्रततोत्तानशायिनी उत्तानशयनशीला। विवृते अनावृते, विवृते तु शायिनी तथा नक्तञ्चारिणी च रक्षःप्रभृतिमूताभिगमनीया भवति । ततञ्च मूतैरभिभूतो गर्भ उन्मत्तो भवतीति युक्तम् । कलिर्वाचा, कलहस्तु शारीरकलहः । स्त्रैणं स्त्रीवशम् । अभिध्यात्री मनसा For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy