________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०८२
[ जातिसूत्रीयं शारीरम्
चरक संहिता | सर्षपाभ्यां वा सह दनि प्रक्षिप्य पुष्ये ऋक्षे पिबेत् । तथैव अपरान् जीवकर्षभकापामार्गसहचरकल्कांश्च युगपदेकैकशो यथेष्टं वाप्युपसंस्कृत्य पयसा, कुड्यकीटकं मत्स्यकञ्च उदकाञ्जलौ प्रक्षिप्य पुष्येण पिवेत् । तथा कनकमयान् राजतानायसांश्च पुरुषकानग्निवर्णान् अणुप्रमाणान् दध्नि पयसि उदकाञ्जलो वा प्रक्षिप्य पिबेदनवशेषतः पुष्येण । पुष्येणैत्र च पिष्टस्य पच्यमानस्योष्माणमुपघ्राय तस्यैव च पिष्टस्योदकसंसृष्टस्य रसं देहलीमुपनिधाय दक्षिणे नासापुटे स्वयमासिञ्चेत् अग्ने आदाय द्वाभ्यां धान्यमाषाभ्यां शमीधान्यरूपमाषाभ्यां सम्पदुपेताभ्याम् अक्षुण्णाभ्यां गौरसर्षपाभ्यां सम्पदुपेताभ्यां द्वाभ्यां श्वेतसर्षपाभ्यां वा सह दनि प्रक्षिप्य पुष्ये नक्षत्रे पिवेत् । इत्येको योगः । तथापरान् जीवकर्षभादीन चतुरो युगपत् मिलिला एक, एकैकशो वा चत्वारः । यथेष्टं वा अन्यतमद्वयेन षड् वा योगा इति । तथान्यतमत्रयेण चत्वार इति दश पञ्च योगानपरान् पयसोपसंस्कृत्य किञ्चित् पक्त्वा पुष्येण पिवेत् । तथा कुड्य कीटकं वल्वीनामकीटं उदकाञ्जलौ प्रक्षिप्य पुष्येण पिवेत् । तथा मत्स्यकं क्षुद्रमत्स्यकमेकमुदकाञ्जलौ प्रक्षिप्य पुष्येण पिवेत् । कनकमयान स्वर्णनिर्मितान् राजतान् रौप्यनिर्मितान् आयसान् लौहनिम्मितान वा पुरुषकान् पुरुषमूर्त्तियुक्तान् अणुप्रमाणान् भक्षणयोग्य सूक्ष्मपरिमाणान अग्निवर्णान् अग्नौ दग्ध्वा अग्निवर्णान् कृत्वा दनि गव्ये पयसि दुग्धे गव्ये निर्धापितान् उदकाञ्जलौ वा मक्षिप्य पुष्येण अनवशेषतो निःशेषेण पिबेत् । अथवा पुष्येणैव च नक्षत्रेण पिष्टस्य पिष्टकविशेषस्य उष्माणम् औष्ण्यमुपघाय घाला तस्योष्ण पिष्टस्य जलसेकेन जलसंसृष्टस्य रसं तदीयजलं देहल्यां निधाय वचनादुन्नीयते, नात्र तादृशा युक्तयः प्रभवन्ति । 'धान्यमाष' शब्देन व्रीहिमापं ग्राहयन्ति, सुवर्णमापञ्च व्यावर्त्तयन्ति । गौरसर्षपः श्वेतसर्षपः । पुष्येणेति पुष्यानक्षत्रेण । यथेष्टमित्यनेन द्विशो वा पिबेदित्यपि दर्शयति । कुड्यकीटः 'कवडिगणा' इति ख्यातः । किंवा ज्येष्ठी कुद्ध्यकीटः । जतृकर्णेऽप्यत्र 'भित्तिमत्स्यः' इति पठ्यते । भित्तिमत्स्यशब्देन च पाश्चात्ये 'ज्येष्ठी' उच्यते । मत्स्य कोद्रः मत्स्यहा मत्स्यकेति ख्यातः ।
देहली गृहद्वाराधः काष्ठम्, तत्रोपरि
* मत्स्यको द्वन्चेति चकः ।
For Private and Personal Use Only
·