SearchBrowseAboutContactDonate
Page Preview
Page 920
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४म अध्यायः शारीरस्थानम् । २०६१ उपदिश्यते प्राग व्यक्तीभावात् प्रयुक्तेन । सम्यक् कर्मणां हि देशकालसम्पदुपेतानां नियतमिष्टफलत्वं तथेतरेषामितरत्वम् । तस्मादापन्नगी स्त्रियमभिसमीक्ष्य प्राग व्यक्तीभावाद गर्भस्य पंसवनमौषधमस्यै दद्यात् ॥ १३ ॥ गोष्ठे जातस्य न्यग्रोधस्य प्रागुत्तराभ्यां शाखाभ्यां शुरु अनुपहते आदाय द्वाभ्यां धान्यमाषाभ्यां सम्पदुपेताभ्यां गौरपुरुषहेतुः शुक्राधिक्यं पुरुषवमनुविधीयते। नपुंसकहेतुस्तयोः साम्यं नपुसकसमनुविधीयते। तयोः स्त्रीपुरुषयोरातवरेतसोहेलोविवर्त्तनमन्यथात्वेन प्रवर्त्तनं शोणिताधिकमपिसमशोणितशुक्रमपि च वीजं स्त्रीनपुसकंन जनयिता वीजं पुत्रं जनयिष्यत्येकान्तेन इतिरूपप्रवर्त्तनं वेदोक्तेन कर्मणा उपदिश्यते । कदोपदिश्यते इत्यत आह–प्राग व्यक्तीभावाद् इति । स्त्रीख-पुस्त-नपुसकसचिह्नानां व्यक्तीभावात् पूर्वकालम्, सर्वम् अवाक् त्रिमासात् प्रयुक्तेन कृतप्रयोगेण वेदोक्तकर्मणा विवर्त्तनं तयोरुपदिश्यते। तयोरिति समयोजनसेन स्त्रीनपुसकवीजयोः पुस्वरूपेण विवर्तनं कर्त्तव्यं, न तु क्लीवस्य स्त्रीरूपस्य वा हेतुविवर्तनमिष्यते। ननु कुतो हेतु विवर्त्तयति कम्मणेत्यत आहसम्यगित्यादि। तथेतरेषामिति असम्यकर्मणामदेशे चाकाले च असम्पदुपेतानामितरवम् अनिष्टफलखमित्यर्थः । तस्मादापन्नगभी गर्भमापन्नाम् अभिसमीक्ष्य गर्भस्य लिङ्गव्यक्तीभावात् पूर्व तृतीयमासं यावत्, अस्यै गर्भमापन्नायै पुंसवनं पुमांसं सूयतेऽनेनेति पुसवनमौषधं दद्यात् ।। १३॥ गङ्गाधरः-ननु किं पुंसवनं तदाह-गोष्ठे जातस्येत्यादि। न्यग्रोधस्य वटस्य पूर्वस्थशाखाया एकां शुङ्गामुत्तरस्थशाखायाश्चैकामिति शुङ्गे द्वे अनुपहते इत्यादिग्रन्थोक्त विभागं स्त्रीपुरुषजनकमनुविधीयते। वेदोक्तनायुर्वेदोक्तेन। प्राग व्यक्तीभावादिति यावन्न स्त्रीत्वं पुस्त्वं वा गर्भस्य व्यक्तं भवति तावदेव, तद् वक्ष्यमाणं कर्म लिङ्गपरिवृत्तिकरं भवति । व्यक्तिस्तु द्वितीयमासे भवति । यदुक्तम् - "द्वितीये मासे घनः सम्पद्यते," इति । किंवा तृतीये मासे भङ्गप्रत्यङ्गाभिव्यक्तीभावो ज्ञेयः। द्वितीये तु मासे ग्रन्थ्यादिरूपगर्भप्रत्यङ्गब्यक्तीभावो न वक्तव्यः । तेन वक्ष्यमाणं कर्म मासद्वयं यावत् कर्त्तव्यम् । प्रयुक्तेनेति पूर्वेण सम्बध्यते । नियतं निश्चितम् । तथेतरेषामितरत्वमिति देशकालविगुणानामनिष्टकारणत्वानिश्चेयमित्यर्थः। पुंसवनमिति पुस्त्वफारकं कर्म। गोष्ठो गवां विश्रामस्थानम्। अतः स्थानादिविशेषपरिग्रह एव फलदो भवतीति २६१ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy