________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६८
चरक-संहिता। रक्तपिसनिदानम् वाराह-माहिषाविक-मात्स्यगव्यपिशित-पिण्याक-पिण्डालु-शुष्कशाकोपहितं, मूलकसर्षपलसुनकरञ्जशिय मधुशिग्रु खड्यूषभूस्तृणसुमुखसुरस-कुठेरक-गण्डीर-कालमालकपर्णा सक्षवकफणिजझकोपदंशं, सुरासौवीरकतुषोदकमैरेयकमेदकमधूलकशुक्तकुबलबदगालप्रायान्नपानं, पिष्टान्नोत्तरभूयिष्ठमुष्णाभिततो वातिमात्रमतिवेलं वा पयसा वा समश्नाति, रोहिणीकं काणकपोतं वा सर्षपतैलक्षारसिद्धं, कुलत्थमाष+पिण्याकजाम्बवनिकुचपक्वैः शौक्तिकैरामक्षीरमतिमात्रमथवा पिबत्युष्णाभितप्तः, तस्यैवमाचरतः पित्तं प्रकोपमापद्यते, लोहितञ्चाशु प्रमाणमतिवर्त्तते। भृशोष्णतीक्ष्णान्नान्निष्पावमाषादुरपहितात् दध्यादुरपसिक्ताद्वा वराहादिमांसपिण्डालुकादुरपहिताद्वा मूलकसर्षपादुश्पदंशाद्वान्नात् सुरासौवीरकादिपायानपानाद्वा तथोष्णाभितप्तस्य पुसः पिष्टान्नोत्तरभूयिष्ठं पिष्टान्नमुत्तरं भोजनावसाने भूयिष्ठं यस्मिन्नशने तत् तथा। तथाविधमन्नमतिमात्रमुष्णाभितप्तो वा योऽश्नाति यथातिमात्रमुष्णाभितप्तः सन्नतिवेलमतिशयं पयसा सहानाति तस्य पित्तं प्रकोपमापद्यते, लोहितञ्चाशु प्रमाणमतिवत्तेते। सर्षपतैलक्षाराभ्यां सिद्धं रोहिणीकं शाकं काणकपोतमांसं वा योऽश्नाति, तधा कुलत्थादिपक्वैः शौक्तिकैबेदरफलैः आमक्षीरमपकदुग्धमतिमात्रं. यः पिबति, अथवा य उष्णाभितप्तः सन्नतिमात्रं क्षीरं पिवति, तस्य पित्तं प्रकोपमापद्यते, लोहितश्वाशु प्रमाणमतिवर्तते । उष्णाभितापेन पित्तप्रकोपः पिष्टान्नादिभोजनपानाभ्यां मस्तु, उदश्विदन्द्वं जलं तक्रम् ; कटुरं निर्जलम्, किंवा अम्लं तक्रम् ; मधुशिग्र स्वरूपशोभाञ्जनकम् ; खड़यूषो रागकर इति ख्यातः ; सुमुखादयः फणिज्झकान्ताः पर्णासभेदाः ; उपदंशमिति मूलकादीनि खादयित्वा यावकाद्यन्नं भुक्त इत्यर्थः ; मधूलको गोधूमविशेषः ; शुक्तः सन्धानविशेषः ; पियानमुत्तरत्र भोजनस्य भूयिष्ठं यत्र तत् पियानोत्तरभूयिष्ठम् ; अतिवेलमिति पुनःपुनः; रोहिणी रोहिणीशाकम् ; शौक्तिकैरिति बदरीफलैः ; आमित्युत्तरेण * कालमानक इति वा पाठः। । इतः परं पयः पिबति' इत्यधिकः पाठः क्वचित् दृश्यते । माषेतिशब्दश्चक्रपाणेरनभिमतः ।
For Private and Personal Use Only