SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयोऽध्यायः। अथातो रक्तपित्तनिदानं व्याख्यास्यामः, इतिह स्माइ भगवानात्र यः ॥ १॥ पित्तं यथाभूतं लोहितपित्तमिति संज्ञां लभते, तथानुव्याख्यास्यामः। ___ यदा जन्तुयवकोदालककोरदूषप्रायाण्यनानि भुङ्क्ते, भृशोष्णतीक्ष्णमपि चानजातं निष्पावमाषकुलत्थसूपक्षारोपहितं, दधिदधिमण्डोदश्वितकट्टराम्लकाञ्जिकोपसेकं वा, गङ्गाधरः-अथ ज्वरसन्तापाद रक्तपित्तस्य सम्भव इति हेतुलसङ्गत्या तथा उष्मा पित्ताहते नास्ति ज्वरो नास्त्युष्मणा विनेति वचनात् सव्वेज्वरे पित्तसम्बन्धो लोहितपित्ते च सर्वत्रैव पित्तसम्बन्ध इत्येककार्यवसङ्गत्या च ज्वरानन्तरं रक्तपित्तनिदानमाह-अथात इत्यादि। सर्व पूर्ववत् ॥१॥ ___ गंगाधरः-ननु रक्तपित्तमिति किं रक्तसहितं पित्तं ? किं रक्तश्च तत् पित्तञ्चेति रक्तपित्तं ? कि रक्तगतपित्तं रक्तपित्तमिति ? अतस्तदर्थं प्रवक्त. माह-पित्तमित्यादि। यथाभूतं येन प्रकारेण यद्रूपं भूखेत्यर्थः। तथानुव्याख्यानमाह-यदेत्यादि। यवकादयः माया बहुला यत्र तानि तथा। यवकादीनां शीतवीर्यादिखेऽपि संयोगप्रभावात् पित्तप्रकोपकवं लोहितपरिमाणातिवत्तेकखश्च । एवं माषादीनां बोध्यम् । न हि केवलयवकादिभक्षणेन पित्तं रक्तश्चाशु मानमविवर्त्तते, किन्तु यवकादिभिर्वहुलैः संयुक्तादनात् तथा चक्रपाणिः-आयोत्पत्तौ ज्वरसन्तापातपित्तोत्पत्तेः ज्वरमनु रक्तपित्तनिदानमुच्यते। 'पित्तं ययाभूतम्' इत्यादिना पित्तमेव अवस्थावशात् लोहितपित्तमित्युच्यते इति दर्शयति, न तु रक्तञ्च पित्तञ्च रक्तपित्तमिति। _ 'यदा जन्तुः' इत्यादिना निदानमुच्यते ; यवको व्रीहिविशेषः ; उद्दालो वनकोद्रवः ; कोरदूषो यद्ययनपाने पित्तहर उक्तस्तथापि भस्य निष्पावादियुक्तस्य संयोगमहिम्ना रक्तपित्तनिदानत्वं ज्ञेयम् । एवमन्यत्रापि । रक्तपित्तनिदानत्वेनेह उक्तशीरादौ ज्ञेयम्। दधिमण्डो For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy