________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०५८
चरक-संहिता। शरीरसंख्यानाम शारीरम् मनुबध्नाति अतियोगेन, तथा मूत्रं रुधिरमन्यांश्च शरीरधातून् ; यत् तु सर्वशरीरचरं वाह्यत्वग विभर्ति, यत् त्वगन्तरे व्रणगतं लसीकाशब्दं लभते, यच्चोष्मणानुबन्धं लोमकूपेभ्यो निष्पतत् स्वेदशब्दमवाप्नोति, तदुदकं दशाञ्जलिप्रमाणम्। नवाञ्जलयः पूर्वस्याहारपरिणामधातोर्यद्रसमित्याचक्षते । अष्टौ शोणितस्य, सप्त पूरीषस्य, षट् श्लष्मणः, पञ्च पित्तस्य, चत्वारो मूत्रस्य,त्रयो वसायाः, द्वौ मेदसः, एको मज्ज्ञः। मस्तिष्कस्यार्धाञ्जलिः, शुक्रस्य तावदेव प्रमाणं, तावदेव श्लेष्मणश्चौजसः। इत्येतदेव शरीरतत्वमुक्तम् ॥ १०॥
पच्यवमानं यदुदकमनुबध्नाति, एवं यदुदकमतियोगयुक्तं मूत्रश्च रक्तश्च अन्यानपि शरीरधातूनतियोगेनानुवध्नाति, यच्चोदकं सव्वशरीरचरं वाह्यलग विभत्ति, यत् तूदकं खगन्तरे वर्तमानं व्रणगतं क्षतगतं सत् निर्गच्छति लसीकाशब्दश्च लभते तस्योदकस्य दशाञ्जलयः। नन्वतावदेव किमुदकमस्ति नास्त्यन्यदित्यत आह-यच्चेत्यादि। यच्चोदकम् उष्मणा शरीरव्यापिनोष्मणा। तदप्युदकं दशाञ्जलिप्रमाणं स्वेनाञ्जलिप्रमाणेनेति परत्र सव्वत्रानुवत्तते । पूव्वस्याद्यस्य आहारपरिणामधातो रसाख्यस्य नवाजलय इत्याह-यद् रसमित्यादि। अष्टौ शोणितस्य द्वितीयधातोरञ्जलयः स्वेनाञ्जलिमानेन। सप्त पुरीषस्याञ्जलयः। षट् श्लेष्मणोऽञ्जलयः। पञ्च पित्तस्याञ्जलयः। चत्वारो मूत्रस्याञ्जलयः। त्रयो वसाया अञ्जलयः। द्वौ मेदसोऽज्जली। एको मज्जो मज्जधातोरञ्जलिः । मस्तिष्कस्य मस्तकान्तरस्थस्य घृतिकाख्यस्याञ्जिलिः । शुक्रस्याञ्जिलिः। श्लेष्मणश्चौजस ओजोधावाख्यइलेष्मणः श्लेष्मविशेषस्य तावदेवार्द्धाञ्जलिरेव। अष्टबिन्द्वात्मकन्तु यदोजः तन्न वृद्धि हासयोगि तयं, तन्नाशाद्धि नाशः स्यादिति । बिन्दुहि कर्षमाणम्, तेऽष्टौ बर्दाञ्जलिः ॥१०॥
प्रकृतिस्थे शरीरे तदकाद्यपि यथोक्तं मानं न व्यभिचरतीत्याह- यत् त्वञ्जलीत्यादि। यत ते प्रदकादि भञ्जलिसंखेयमग्रे वक्ष्यमाणम्, तदकादेः परं प्रमाणम् ॥ १० ॥
For Private and Personal Use Only