________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमोऽध्यायः। अथातः शरीरसंख्यानाम शारीरं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः ॥ १॥ शरीरसंख्यामवयवशः कृत्स्नं शरीरं प्रविभज्य सर्वशरीरसंख्यानप्रमाणज्ञानहेतोभगवन्तमात्रेयमग्निवेशः पप्रच्छ ॥ २॥
गङ्गाधरः-अथ शरीरविचयः शरीरोपकारार्थमिष्यते इति यदुक्तं, तत्रोक्ताध्यायोक्तशरीरविचयानन्तरं शरीरविचयपरिशेषं व्याकत्तुं शरीरसङ्ख्यानाम शारीरमारभते-अथात इत्यादि। शरीरस्य सङ्ख्या सङ्ख्याया ज्ञानमननेति शरीरसङ्ख्या, सा विद्यतेऽस्मिन्नध्याये मत्वर्थीयप्रत्ययः। पूर्ववच्छन्दसीति मखर्थे च्छन्दःप्रत्ययमुत्पाद्य तल्लोपे प्रकृतिभावश्च विधाय शरीरसङ्घ प्रति निष्पाद्यते। शरीरसङ्ख्या नाम यस्य तत् तथा। सर्व पूर्ववत् ॥१॥
गङ्गाधरः-शरीरेत्यादि। अग्निवेशो भगवन्तमात्रेयं सर्वशरीराणां सङ्ख्यानस्य साया शानस्य प्रमाणं साधनं तस्य ज्ञानहेतोः शरीरमवयवशः प्रविभज्य शरीरसङ्ख्यां पप्रच्छेति योजना ॥२॥
चक्रपाणिः-पूर्वाध्याये धातुभेदेन शरीरमभिधाय एतदेव शरीरमवयवसंख्याभेदेन प्रतिपादयितु शरीरसंख्या उच्यन्ते, अवयवसंख्यानप्रमाणभेदेन च शरीरज्ञानं प्राधान्येन साक्षात् साधनं चिकित्सोपयुक्तं करिष्यतीति अध्यायान्ते 'शरीरसंख्यां यो वेद' इत्यादि। अवयवशः शरीरं विभज्य शरीरसंख्यां पप्रच्छेति योजना। पृच्छाप्रयोजनमाह-सर्वशरीरसंख्यानप्रमाणज्ञानहेतोरिति । संख्यानस्य प्रमाणमियत्ता संख्यानप्रमाणम्, तच्च 'षड़ द्वादश' इत्यादिग्रन्थवाच्यम् । किंवा संख्यानञ्च प्रमाणञ्च संख्यानप्रमाणम् । अत्र 'षट् त्वचः' इत्यादि संख्यानम्, 'दशोदकाञ्जलयः' इत्यादि शरीरावयवप्रमाणम् । किंवा संख्यानामप्रमाणज्ञानहेतोरिति पाठः । तत्र संख्यानप्रमाणस्य दत्तमेवोदाहरणम्, नामज्ञानन्तु 'एकजिटिका' इत्यादिग्रन्थे भवतीति व्याख्यानयन्ति ॥ ॥२॥
२५५
For Private and Personal Use Only