________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
शारीरस्थानम् ।
२०४३ पाणिपादहृदयानि। नव महान्ति च्छिद्राणि सप्त शिरसि द्व चाधः ॥८॥ च । इत्येतानि प्रत्यङ्गानि खलु (एकोनविंशतिः)। विंशतिः द्विद्विसङ्ख्यानि भवन्ति। शेफःप्रभृतीन्येकैकसयानि। तद यथा। एक शेफः (एका वस्तिः) एकं वस्तिशीषमेकम् उदरमेकं चिवुकमेकं तालु एका गलशुण्डिका एका गोजिहिका एकोऽयुटुः। तथान्यत्रोक्तम्-एकोऽवटरेकं मस्तकमेकं पृष्ठमेको नाभिरेक ललाटमेका नासिका ग्रीवा चैका । इत्येतान्येकैकसङ्ख्यानि। तत्र जङ्घापिण्डिका जानुनोरधस्तान्मांसपिण्डाकारमङ्गम्। अरुपिण्डिका अरुस्थमांसपिण्डिका । स्फिक नितम्बमांसपिण्डिका। वृषणावण्डद्वयम् । सुश्रुते च-मांसामुक्कफमेदःप्रसादाद वृषणौ भवतः इत्युक्तम्। शेफः शिश्नो ग्रीवाहृदयनिवन्धिनीनामधोगानां कण्डराणां प्ररोह इति। उखे इति उखौं कक्षपाश्वयोनिम्नभागः। ऊरुटषणयोर्मध्यभागो वङ्क्षणः। स्फिचोरुपय्यु नतभागः कुकुन्दरः। नाभेरधोदेशो वस्तिशीर्षम् । चिवुकं मुखाधोभागो हन्वग्रदेशः। एका गलशुण्डिकेति गलाभ्यन्तरं नलीति लोके। द्वे उपजिबिके इति गलसंलग्ना क्षुद्रजिह्वा चैका गलाभ्यन्तरमेका चति। एका गोजिढिकेति गौर्वाक तदर्था जिह्वा रसनानामेति। अवोटा । पाणिहृदयं पाणितलं पादहृदयं पादतलम् । नव महान्ति च्छिद्राणीति पुरुषाभिप्रायेण । तानि विवृणोति-सप्त शिरसि द्वे अधः इति । चक्षुषो योः द्वेच्छिद्रे । नासिकायां द्वेच्छिद्रे । कर्णयो यो च्छिद्रे । मुखच्छिद्रमकमिति सप्त च्छिद्राणि शिरसि महान्ति स्त्रीपुरुषयोः। उपस्थद्वारमेकमेकं गुदद्वारमिति द्व अधश्छिद्रे महती, इति नव महान्ति च्छिद्राणि स्त्रीपुंसयोब्रह्मरन्धे चैकम् आवृतमिति दश। स्त्रीणामपराणि त्रीणि महान्ति च्छिद्राणि । द्वे स्तनयोश्छिद्रे एक योनिद्वारमात्तववहमधस्तादिति त्रयोदश च्छिद्राणि स्त्रीणां महान्ति । सुश्रुते चोक्तानि-श्रवण-नयन वदन-घ्राण-गुदमेढाणि नव स्रोतांसि नराणां वहिर्मुखाण्येतानि, स्त्रीणामपराणि त्रीणि, द्वे स्तनयोरधस्ताद्रक्तवहञ्चैकमिति । तत्रान्तरेऽन्तर्मुखमेकं ब्रह्मरन्धमिति। तेन सह पुसो दश स्त्रीणां त्रयोदशेति । लोमकूपान्यसङ्ख प्रयानि क्षुद्रच्छिद्राणि ॥८॥ अक्षिगोलके। द्वे अक्षिकनीनिके इत्यत्र 'कनीनिका'शब्देन नासया सममक्षिसन्धिरभिधीयते। अवटुर्घाटा। चत्वारि पाणिपादहृदयानीति पाण्योः पादयोश्च तलानि मध्यानि चत्वारीत्यर्थः । एतावतैव पटपञ्चाशत् प्रत्यङ्गानि पूर्यन्ते। नव महान्ति च्छिद्राणीति व्याकरोति-सप्त शिरसि द्वे
For Private and Personal Use Only