________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०४२
चरक-संहिता। शरीरसंख्यानाम शारीरम् षट्पञ्चाशत् प्रत्यङ्गानि षट्खङ्गषूपनिबद्धानि, यान्यपरिसंख्यातानि पूर्वमङ्गेषु परिसंख्यायमानेषु, तान्यन्यैः पर्यायैरिह प्रकाश्य व्याख्यातानि भवन्ति। तद् यथा-जवापिण्डिके द्वे ऊरुपिण्डिके द्वौ स्फिचौ द्वौ वृषणावेकं शेफो द्वे उखे द्वौ वङ्क्षणौ द्वौ कुकुन्दरौ एकंवस्तिशीर्षमेकमुदरं द्वौ स्तनौ द्वौ भुजौ छ द्व बाहुपिण्डिके चिवकमेकं द्वावोष्ठौ द्वे मृकण्यो द्वौ दन्तवेष्टकावेकं तालु एका गलशुण्डिका द्वे उपजिबिके एका गोजिबिका द्वौ गण्डौ द्वे कर्णशकुलिके द्वौ कर्णपुत्रको द्वे अक्षिकूट चत्वार्य्यक्षिवानि व अतिकनीनिके द्वे भ्र वावेकोऽवटुः चत्वारि
गङ्गाधरः-कोष्ठाङ्गान्युक्त्वा प्रत्यङ्गान्याह---षट्पञ्चाशत् प्रत्यङ्गानीत्यादि । नन्वेतानि किं पड़गाधिकान्युतावान्तराणीत्यत आह-खित्यादि। पूर्व येषु परिसंख्यायमानेष्वङ्गेषु यान्यपरिसङ्ख्यातानि तानि पड़नेषु पाणिपादशिरोऽन्तराधिषु पटमुपनिबद्धानि । तान्यन्यैः पर्यायैरिह पुनः प्रकाश्यानि भवन्ति । तद यथेत्यादि-तत्रतेजङ्घादिके द्वे द्वे । जङ्घद्वे द्वे चोरुपिण्डिके। द्वौ स्फिचौ। द्वौ वृषणौ । द्वे उखे। द्वौ वङ्गणे । द्वौ कुकुन्दरौ। द्वौ स्तनौ। द्वौ भुजौ। द्वे बाहुपिण्डिके । द्वावोष्ठौ। द्व मुक्कण्यौ । द्वौ दन्तवेष्टको । व उपजिहिके। द्वौ गण्डौ। द्वे कर्णशष्कुलिके । द्वौ कर्णपुत्रको। द्वे खक्षिकूटे। द्वे अक्षिकनीनिके। वे भ्र वो
चक्रपाणिः-पटपञ्चाशत् प्रत्यङ्गानीति, तद् यथा-वे जवापिण्डिके इत्यादिग्रन्थवक्ष्यमाणानि । यानीत्यादि-यानि यानि वक्ष्यमाणानि षट्पञ्चाशत् प्रत्यङ्गानि पूर्वमङ्गेषु हस्तादिषु षटसु परिसंख्यायमानेषु अपरिसंख्यातानि, तान्यन्यैः पर्यायैः प्रकाश्यानि भवन्तीति योजना। पर्यायाश्च 'जङ्घापिण्डिकादयः' शब्दा एव, एतेन हस्तादिषडङ्गकथनेनैव तदाश्रिता अपि जङ्घापिण्डिकादय उक्ता एव । सम्प्रति तु अवयवविशेषव्यवहारार्थ जङ्घापिण्डिकादयः पृथगुक्ता इति वाक्यार्थः। पूर्वमङ्गेष्वितिस्थाने पूर्वमन्येष्विति पाठः, तथापि 'अन्य'शब्देन हस्तादीनि घड़ङ्गानि ग्राह्याणि । उखे इति कक्षस्य पार्श्वयोनिम्नभागौ। कुकुन्दरौ स्फिचोरुपरि उन्नती भागौ। वस्तिशीर्ष नाभेरधः । श्लेप्मभुवौ कण्ठपार्श्वयोर्व्यबस्थितौ कठिनौ भागौ । सृक्कण्यौ वदनान्ते । व उपजिहिके इति जिह्वाया अधोगता जिह्वा, तथा उपरिगता ग्राह्या। एका गोजिविकेति गौर्वाक, तस्याः कारणमूता जिह्वा । तेन वचनकारणमूता प्रधानभूता जिद्वैव गृह्यते। कर्णशष्कुलिके कर्णगतावर्तकौ, कर्णपुत्रको तु द्वौ कर्णावेव। अक्षिकूटके
* द्वौ भुजौ इत्यत्र द्वौ श्लेष्मभुवौ इति चक्रः ।
For Private and Personal Use Only