________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ट अध्यायः |
शारीरस्थानम् ।
२०२३
गर्भस्तु खलु मातुः पृष्ठाभिमुख ऊर्द्ध शिराः सङ्कुच्याङ्गानि आस्ते जरायुवृतः कुक्षौ । व्यपगतबुभुक्षापिपासस्तु गर्भः परतन्त्रवृत्तिर्मातरमाश्रित्य वर्त्तयत्युपस्नेहोपस्वेदाभ्याम्, गर्भस्तु सदसद्भूताङ्गावयवः । तदनन्तरं ह्यस्य लोमकूपायनैरुपस्नेहः कश्चित् सर्व्वभावा अन्योन्यप्रतिवद्धा न होकं विना अपरो भावः शरीरे प्रतिबद्धो वर्त्तते । तस्माद् यथाभूतदर्शनमुक्तरूपेण दर्शनम् साधु । इति पूर्व्वप्रश्नस्योत्तरमिति ॥१४
}
गङ्गाधरः अथ कुतोमुखः कथं वा चान्तर्गतस्तिष्ठतीति द्वितीयमश्नोत्तरमाह - गर्भस्त्वित्यादि कुक्षावित्यन्तम् । तत्र कुतोमुख इत्यस्योत्तरं - मातुः पृष्ठाभिमुख इति । कथं वा चान्तर्गतस्तिष्ठतीत्यस्योत्तरमाह - ऊर्द्ध शिरा इत्यादि । जरायुवृतः कुक्षाविति । जरायुवृतमुखखाद् गर्भो न कुक्षौ रोदिति । तदुक्तं सुश्रुते-- जरायुणा मुखे च्छन्ने कण्ठे च वेष्टिते । वायोर्मागि निरोधाच्च न गर्भस्थः मरोदिति ॥ इति । अथ गर्भः किमाहारश्च वर्त्तयतीति प्रश्नस्योत्तरमाह – व्यपगतेत्यादि । क आहारो यस्य स किमाहारो गर्भो वर्त्तयतीति चौरादिको वृतिः । गर्भः कुक्षौ व्यपगतक्षत् पिपासस्तु सन् परतत्रवृत्तिर्मातरमाश्रित्य वर्त्तयति । व्यपगतबुभुक्षापिपास इति निराहारश्चेत् कथं जीवन् वर्त्तते इत्यत आह- परतन्त्रवृत्तिरिति । कोऽसौ परो यस्य तत्रवृत्तिर्वर्त्तत इत्यत आह- मातरमाश्रित्य वर्त्तयति । कथं निराहार इत्यत आह- उपस्नेहोपस्वेदाभ्यामिति । गर्भाशयस्य यः स्नेहो योष्मा तत्स्नेहस्य स्नेहेन तदुष्मणः स्वेदेन गर्भाशये वर्त्तयति, यथा घृतादिस्निग्धभाण्डे स्थित वस्तु वर्त्तते । तथा गर्भाशये सदसद्भताङ्गावयवः किञ्चिदङ्गं जातं किञ्चिदजातमिति सदसद्भूताङ्गावयवो यदा गर्भस्तदैवमुपस्नेहोपस्वेदाभ्यां गर्भाशये वर्त्तते सवयवस्तु कथं वर्त्तते इत्यत आह- तदनन्तरमित्यादि । तत्सदसद्भूताङ्गावयवानन्तरं सद्भूताङ्गावयवस्यास्य गर्भस्य लोमकूपायनैः कश्चिदुपस्नेहः कश्चित् हेत्वन्तरमाह सर्व्वभावा हीत्यादि । भावा इति शरीरभावाः । अन्योन्यप्रतिबद्धा इति यस्मात् सर्व्वभावाः परस्परप्रतिबद्धा एव सिरास्नाय्वादिभिर्जायन्ते, तेन समाननिबन्धना युगपदेव भवन्ति । यथाभूतदर्शनमिति यथात्मदर्शनम्, तच्च धन्वन्तरिमतमेव ॥ १४ ॥
1
चक्रपाणिः - गर्भस्त्वित्यादि द्वितीयप्रश्नस्योत्तरम् । 'व्यपगत' इत्यादि, "किमाहारश्च वर्त्तयति" इति प्रश्नोत्तरम् । परतन्त्रवृत्तिरिति मात्रधीनवृत्तिः । एतदेव विवृणोति - मातरमित्यादि । उपस्नेहो निष्यन्दः । सदसदभूताङ्गावयव इतिच्छेदः । तदनन्तरमित्यङ्गप्रत्यङ्गवृत्तौ सत्याम् ।
For Private and Personal Use Only