________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०२२
चरक-संहिता। [शरीरविचयशारीरम् निर्वृ त्तत्वाद। हृदयप्रभृतीनां ® सर्वाङ्गाणां ह्यस्य हृदयं
मूलमधिष्ठानञ्च केषाञ्चिद्भावानाम्, न च तस्मात् पूर्वाभिनिर्वृत्तिः एषाम् । तस्माद् हृदयपूर्वाणां सर्वाङ्गाणां तुल्यकालाभिनिवृत्तिः। सर्वभावा ह्यन्योन्यप्रतिबद्धास्तस्माद यथाभूतदर्शनं साधु ॥१४॥ लब्धिः । तान्येव कालप्रकर्षात् प्रव्यक्तानि भवन्ति ।” इति । एतद्धन्वन्तरिमतम् अनुमन्तुमाह-तदुपपन्नमित्यादि। कस्मात् तदुपपद्यत इत्यत आह-सङ्गिाणामित्यादि। तत्रापि किञ्चित् स्वमतमुपदर्शयन्नुपपादयति--हृदयेत्यादि। हि यस्मात् हृदयप्रभृतीनां सर्वाङ्गाणामस्य गर्भस्य हृदयादिसङ्गिाणां हृदयं मूलं केपाश्चिद् भावानामोजःप्रभृतीनाम् आत्ममनोवुद्धीनाञ्चाधिष्ठानञ्च तस्माद हृदयस्य पूर्वाभिनि तिरिति काकायनकृतवीर्य योर्मतमङ्गप्रत्यङ्गानां पूर्वाभिनित्तावेषां सङ्गिाणां पूर्चे हृदयस्याभिनि तिरिति न सम्यक् । सर्वाङ्गप्रत्यङ्गानि युगपत् सम्भवन्तीति धन्वन्तरिमतञ्च सम्यक् उपपन्नं यथा तदाह- तस्माद् हृदयपूर्वाणामित्यादि । पूर्व हृदयस्याभिनि→ त्तिरात्मावक्रान्तिम् अन्तरेणाङ्गाभिनितेरसम्भवात् आदौ गर्भाशयगते शुक्रशोणिते यत्रात्मावक्रम्य तिष्ठति तदेव हृदयं भवति । तस्माद हृदयनिर्देशपूर्वाणां सर्वागाणां तुल्यकालाभिनिट त्तिः। कस्मात् ? सर्वभावा हीत्यादि। हि यस्मात् हेत्वर्थः प्रतिज्ञार्थादभिन्न एव। ये तु तुल्यकालाभिनिवृत्तत्वादिति पठन्ति, तेषां हेत्वर्थो व्यक्त. त्वादभिन्न एव । येन उत्तरकालमपि सर्वाङ्गाणां युगपद वृद्धिदर्शनम् । समानकालवर्द्धमानानां फलानां समकालमेव जन्मानुमीयते, असमानकालजातानां न समानकालसमा वृद्धिर्भवति । पूर्वपीणां मतानि हृदयपूर्वाभिनिर्वृत्तिदूपणेनैव समानन्यायाद् दृपयन्नाह--सर्वाङ्गाणां तस्येत्यादि। मूलमिव मूलम्, तदुएघातेन सर्वाङ्गोपघातात्। अधिष्टानमित्याश्रयः । तत्रौजःप्रभृतीनामधिष्टानं हृदयञ्च भवति, न च तस्मात् पूर्वाभिनिवृत्तिरिति तस्याधिष्ठानमूलत्वात्, नानधिष्ठानानाञ्च पूर्वाभिनिर्वृत्तिर्भवति । यदि हि मूलं कारणमिह मतं स्यात्, तदा प्राक कार्येभ्योऽङ्गेभ्यश्च हृदयं स्यात्, न चेहाङ्गानां हृदयं कारणम्, किन्तु प्रधानम्, प्राधान्यञ्च तदुपघातेन सोपघातात् इति। यश्चाप्याश्रयाश्रयिभावः, स चापि सहोत्पन्नानामेव । हृदयं तदाश्रितौजःप्रभृतीनां प्रधानं भवतीति भावः। तदेवं चेत् हृदयस्य प्रधानस्य पूर्वोत्पादो नास्ति, तदा शिरःप्रभृतीनामपि पूर्वोत्पादो नास्त्येवेति कृत्वोपसंहरन्नाह-एषां तस्मादित्यादि। युगपदभिनिवृत्तो
* सर्वाङ्गाणां तुल्यकालाभिनिर्वृ त्तत्वाद । हृदयप्रभृतीनामित्यत्र सिद्धत्वादिति चक्रः ।
For Private and Personal Use Only