________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०२०
चरक संहिता |
[ शरीरविचयशारीरम्
तमेवमुक्तवन्तं भगवन्तमात्रेयमग्निवेश उवाच । श्रुतमेतद् यदुक्तं भगवता शरीराधिकारे वचः । किं नु खलु गर्भस्याङ्गः पूर्व्वमभिनिर्वर्त्तते कुक्षौ, कुतोमुखः कथं वा चान्ततस्तिष्ठति, किमाहारश्च वर्त्तयति, कथम्भूतश्च निष्क्रामति, कैश्चायमाहारोपचारैर्जातस्त्वव्याधिरभिवर्द्धते सद्यो हन्यते कैः, कथञ्चास्य देवादिप्रकोपनिमित्ता विकारा उपलभ्यन्ते आहोस्विन्न, किञ्चास्य कालाकाल-मृत्योर्भावाभावयोर्भगवानध्यवर यति, किञ्चास्य परमायुः कानि चास्य परमायुषो निमित्तानीति ॥१३॥
-
Acharya Shri Kailassagarsuri Gyanmandir
.
तमेवमुक्तवन्तमग्निवेशं भगवान् पुनर्व्वसुरात्रेय उवाच । पूर्व्वमुक्तमेतद्गर्भावकान्तौ यथायमभिनिर्व्वर्त्ततै कुक्षौ । यच्चास्य यदा सन्तिष्ठतेऽङ्गजातम् । विप्रतिपत्तिवादात्वत्र बहुविधाः
गङ्गाधरः- तमेवेत्यादि । एवं पूर्व्वमुक्तं यावत् तावदुक्तवन्तं भगवन्तम् । यत्प्रश्नमुवाच तदाह- किं न्वित्यादि । नु भो गर्भस्य खलु किम कुक्षौ पूर्वमभिनिर्व्वर्त्तते । इत्यादयः प्रश्नाः ॥ १३ ॥
गङ्गाधरः -- तेषामुत्तरमुवाच । तदाह - पूर्व्वमुक्तमित्यादि । यदङ्गं कुक्षौ गर्भस्य
चक्रपाणिः - शरीरविचायकं प्रकरणं समाप्य गर्भशरीरविचायकं प्रकरणमारभते - एवंवादिन मित्यादि । कुक्षावित्यन्तेन एकः प्रश्नः । कुतोमुखः कथञ्चान्तर्गतस्तिष्ठतीति द्वितीयः । निष्क्रामतीत्यन्तेन तृतीयः । कैश्वायमाहारोपचारैर्जातः सद्यो हन्यत इति चतुर्थः । कैरव्याधिरभिवर्द्धत इति पञ्चमः । आहोस्विन्नेत्यन्तः षष्ठः । शेषं प्रश्नत्रयं पूर्वप्रश्नद्वयस्य व्यवच्छेदमेव । एवं नव प्रश्नाः । अध्यवस्यतीति निश्चिनोति ॥ १३॥
चक्रपाणिः - यथाक्रममुत्तराण्याह - पूर्वमित्यादि । पूर्वमुक्तमिति यच्चास्य यदा सन्तिष्टते अङ्गजातम्, तदपि गर्भावक्रान्तौ ' एवमस्य युगपदिन्द्रियाणि अङ्गावयवाश्च यौगपदेवनाभिनिर्व्वर्त्तन्ते, अन्यत्र तेभ्यः, येऽस्य जातस्योत्तरकालं जायन्ते" इत्यादिना ग्रन्थेनोक्तम् । यद्यपि 'कथमभिनिर्व्वर्त्तते कुक्षौ इति नेह पृष्टम्, तथापि अभिनिवृत्तिक्रमोपदर्शनेन " किं नु खलु गर्भस्याङ्ग पूर्वमभिनिर्व्वर्त्तते” इति प्रश्नस्य यथोक्तोत्पादक्रमोपदर्शनादुत्तरं भवतीति मुनिनोक्तम्, - 'उक्तमेतत् गर्भावक्रान्तौ यथायमभिनिर्व्वर्त्तते कुक्षौ' इति । उक्तामपि युगपदङ्गाभिनिर्वृत्तिं
For Private and Personal Use Only