________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः ।
शारीरस्थानम् ।
२०१६ दुष्टदोषगतिर्यावत् संस्पर्शनाच्छारीरधातूनाम् । प्रकृतिभतानान्तु खलु वातादीनां फलमारोग्यम् । तस्मादेषां प्रकृतिभावे प्रयतितव्यं बुमिद्भिः ॥ ११ ॥
तत्र श्लोकः। सर्वदा सर्वथा सव्वं शरीरं वेद यो भिषक् । आयुर्वेदं स कात् स्न्येन वेद लोकसुखप्रदम् ॥ १२॥
विज्ञानानि लक्षणानि अश्रद्धा चारुचिश्चास्येत्यादिभिरुक्तानि। यावत् संस्पर्शनादिति शरीरधातूनां संस्पर्शनेन्द्रियवञ्च यावत् । दुष्टदोषगतिरेतावती। लगतीता तु न दुष्टदोषगतिरस्तीति। दुष्टदोषकार्यमुक्त्वा प्रकृतिभूतानां वातादीनां कार्यमाह-प्रकृतिभूतानामित्यादि। तस्मादित्यारोग्यफलकबाद एषां वातादीनाम् ॥११॥
गङ्गाधरः-एतमर्थं श्लोकेनाह-सर्व्वदेत्यादि। वेदेति वेत्ति। लोकसुग्यप्रदमायुर्वेदम्। स कृत्स्नेन वेद वेत्ति ॥१२॥
ननु रसाद्याश्रयदुष्टवातादिलक्षणं तावत् विविधाशितपीतीये चोक्तम् । केशमूत्रनखाद्याश्रयदाष्टलक्षणन्तु यदत्र नोक्तम्, तत् कथं ज्ञेयमित्याह-एतावत्येवेत्यादि। केशादौ दृष्टानामपि वातादीनां गतिर्नास्तीति वाक्यार्थः। यावत् संस्पर्शनादिति स्पर्शनेन्द्रियध्याप्यत्वेन शरीरधातूनां दूषणे स्पर्शनेन्द्रियपर्यन्तमेव दुष्टदोपगतिर्भवति, तेन न केशादिषु दृष्टदोषगतिः। यत् तु पलितादिकेशे मूत्रे नखे वा पुष्पम्, तत् स्पर्शवच्छरीरस्थितेनैव दोपेण कृतम्, न पुनर्नखमूम्रकेशेष्यपि स्वमार्गचारी दोषः प्रचरतीति ब्रुवते। वयन्तु ब्रमः--विविधाशितपीतीयोक्तदृष्टया सर्वदुष्टुयपसंग्रहो भवतीति दर्शयन्नाह-एतावत्येवेत्यादि। यावत् संस्पर्शनादिति कृत्स्नसम्बन्धात् । तेन शरीरधातूनां यावत् स्पर्शनाद दुष्टदोषगतिर्भवति, सा एतावत्येव, सा सर्वा विविधाशितपीतीयोक्तव, न ततोऽधिका दृष्टिदेहस्यास्ति । तत्र हि "मलानाश्रित्य दृष्टास्तु भेदशोथप्रदूषणम्" इति ग्रन्थेन कृत्स्नग्रहणात् केशनखौ च मलौ गृहीतावेव। एतेन नखानकेशाम्रगतेन दोषेणैव कृतं भवेत् । अथ दृष्टा वातादयो दृष्टिलक्षणानि कुर्वन्ति, प्रकृतिस्थास्तु किं कुन्तीत्याह-प्रकृतिभूतानामित्यादि। सम्प्रत्युक्तप्रकरणजन्यशरीरज्ञानस्य फलमाह-शरीरमित्यादि ॥ १॥१२॥
For Private and Personal Use Only