________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०१६
चरक-संहिता। [ शरीरविचयशारीरम् आहारपरिणामकरास्त्विमे भावा भवन्ति। तद् यथा--- उष्मा वायुः क्लेदः स्नेहः कालः संयोगश्चेति । तत्र तु खल्वेषाम् उष्मादीनामाहारपरिणामकराणां भावानामिमे कर्मविशेषा भवन्ति। तद् यथा--उष्मा पचति, वायुरपकर्षति, क्लदः शैथिल्यम् आपादयति, स्नेहो मार्दवं जनयति, कालः पर्याप्तिमभिनिवर्त्तयति, संयोगरत्वेषां परिणामधातुसाम्यकरः सम्पद्यते। परिणामतस्त्वाहारस्य गुणाः शरीरगुणभावमापद्यन्तै सौ बलहेतुर्यथा युधिष्ठिरः सर्वधर्मवान् न यथा बली तथा भीमोऽतादृशधर्मवानपि बली। संहर्षश्च चित्ताहादः ॥ ८॥
गङ्गाधरः--नन्याहारसम्पद्रलद्धिहतुः कथमाहारसम्पत् स्यादित्यत आह--- आहारेत्यादि। उष्माग्नि ठरो धातुगश्च सर्वः। ननु कः केन कर्मणाहारं परिणामयति इत्यत आह-तत्रेत्यादि। उष्मा पचतीत्यादि। कालः पर्याप्तिं परिणतिं निष्पत्तिम्। संयोगस्वेषामिति एषामाहारजरसानां परिणामेन धातुभिः सह साम्यं समतां करोतीति। ननु कथं संयोगः परिणामेन धातुसाम्यं करोतीत्यत आह--परिणामत इत्यादि। परिणामत
चक्रपाणिः-प्रशस्तगुणाभिधानप्रस्तावादाहारपरिणामस्यापि प्रशस्तस्य हेतुमाह- आहारेत्यादि । काल इति पाककालो निशावसानादिरूपः। समयोग इत्याहारस्य प्रकृत्यायष्टाहारविधिविशेषात् सम्यगयोगः। तत्र चाहारपरिणामकरेषु उष्मैव साक्षात् पाके व्याप्रियते, वाय्वादयस्तु तस्य पचतः सहायताव्यापारविशेषेण सहायतां यान्तीति दर्शयन्नाह -तत्रेत्यादि । - वायुरपकर्षतीति उष्मस्थानाद् विदूरस्थितमन्नमुष्मसमीपं नयति । यदक्तम्- "अन्नमादानकर्मा तु प्राणः कोष्टं प्रकर्षति" इति। वायुरपकर्षतीत्युपलक्षणम् । तेन अग्न्युत्तेजनमपि समानाख्यस्य वायोः बोद्धण्यम् । उक्तं हि-"समानेनावधूतोऽग्निः पचति" इति। पर्याप्तिमिति पाके निष्पत्तिम्, सत्यपि उष्मादिव्यापारे कालवशादेव पाको भवति, नोष्मादिव्यापारमात्रादिति भावः। समयोगस्तु एषामिति एषामाहारद्रव्याणां प्रकृत्यादीनां यः समयोगः, स परिणामकरो धातुसाम्यकरश्च भवति । यदा हि प्रकृत्यादिविरुद्ध आहारो भवति, तदा प्रकृत्यादिदोषादेव न सम्यकपरिणामकरो भवति । एतदुष्मादिव्यापारप्रतिपादक ग्रन्थान्तरम्, यथा-"अन्नमादानका तु प्राणः कोष्ठं प्रकर्षति । तद्वैर्भिन्नसंघातं स्नेहेन मृतां गतम् । समानेनावधूतोऽग्निरुदयः पवनेन तु। काले पक्वं समं सम्यक् पचत्यायुर्विवृद्धये ॥” इति
* समयोगश्चेति चक्रः।
For Private and Personal Use Only