________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रष्ट अध्यायः ]
शारीरस्थानम् ।
२०१५
कातून्येन शरीरवृद्धिकरास्त्विमे भावा भवन्ति तद् यथा - कालयोगः, स्वभावसंसिद्धिः, आहारसौष्ठवम्, अविघातश्चेति । बलवृद्धिकरास्त्विमे भावा भवन्ति । तद् यथा -- बलवपुरुषे देशे जन्म, वलवत्पुरुषे च काले । सुखश्च कालयोगः । वीजक्षेत्रगुणसम्पन्वाहारसम्पच शरीरसम्पच्च सात्मासम्पच्च सत्त्वसम्पच स्वभावसंसिद्धिश्च योनञ्च कर्म्म च संहर्षश्चेति ॥ ८ ॥
गङ्गाधरः शरीरेकदेशपांसादिदृद्धिहासाक्वा कस्नदेहट हिासक रानुदाहरति-कात् स्नेनेत्यादि । इमे के तानाह - कालेत्यादि । कालो नित्यगः कृतयुगादिः हेमन्तादिव तथावस्थिकच स्त्री पुमांथ वाक्ययुक्तादिः । स्वभावः स्वस्वप्रकृतिः, संसिद्धिः स्वाभाविकी या यस्य सिद्धिः अविघात इत्यव्याघातकरो भावः । बलवृद्धीत्यादि । बलवत्पुरुषे देशे यस्मिन् देशे वलवान पुरुषो जायते स देशः, एवं बलवान् पुरुषो यस्मिन् काले जायते स कालः । सुखच सुखानुबन्धः कालयोगः । वीजक्षेत्रयोर्गुणसम्पत् साद्गुण्यम् । आहारसम्पत् आहारसाद्गुण्यम्, शरीरसम्मत् शरीरगुणानां साद्गुण्यम्, सात्म्यसम्पत् सात्म्यानामपि रसानां मधुरादीनां साद्गुण्यं कट्टादीनामसाद्गुण्यम् सत्त्वसम्पत् मनसो धर्मवशेन सद्गुण्यमवशेनासाद्गुण्यम् । स्वभावसंसिद्धिः स्वाभाविकी सिंहादीनां वलसिद्धिः । यौवनञ्च वालयवार्द्धक्यापेक्षया । बलकरं कम्मे च धम्मौऽपि न
ह
चक्रपाणिः- वृद्धिप्रस्तावात् सर्व्वशरीर वृद्धिकरानाह - का स्नेनेत्यादि । कालयोग इति वृद्धिकारक यौवनादिकालयोगः | यौवनादौ हि सप्तदशवत्सरादिकाललक्षणे कालमहिम्नैव वृद्धिर्भवति । 'स्वभाव' शब्देनादृष्टमुच्यते । तेन स्वभावसंसिद्धशरीरवृद्धिहेतुरदृष्टम् । आहारसौष्ठवमित्याहारसम्पत् । अविघातश्चेति शरीरवृद्विविधातकरातिव्यवायम नोघातादिविरहः ।
पुरुषाः
वृद्धिप्रस्तावाच्च बलवृद्धिकरान् भावानाह-- बलेत्यादि । देशमहिम्ना बलवन्तः यस्मिन् । हेमन्ते शिशिरे वा काले जायमानस्य बलं जनयति । सुखश्च कालयोग इति साधारणकालयोगः । वीजस्य शुक्रस्य तथा क्षेत्रस्यार्त्तवगर्भाशयरूपस्य गुगानां प्रशस्तधर्माणां सम्पत्वीजक्षेत्र गुणसम्पत् । अत्र वीजक्षेत्रयोर्निपतापि सम्पत् स्यात् । तेन निर्दोपातिरिक्तक्ष्य सारत्वादिवीजक्षेत्र गुणप्राप्तार्थ 'गुण' ग्रहणं ज्ञेयम् । सत्त्वसम्पच्चेति सत्त्वसम्पदापि शारीरं बलं भवतीति ज्ञेयम् । वचनं हि - "शरीरं ह्यपि सत्वमनुविधीयते ।” स्वभावसंसिद्धिर्बलजनककर्मसंसिद्धिः । कर्म व्यायामादिकम्र्मेत्यर्थः । व्यायामादिकर्माभ्यासान् निजं बलं भवति ॥ ८ ॥
For Private and Personal Use Only