________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४थ अध्यायः]
शारीरस्थानम्।
१९७३ स्वभावसंसिद्धेश्च कुक्षौ वृद्धिं प्राप्नोति । मात्रादीनामेव तु खलु गर्भकराणां भावानां व्यापत्तिनिमित्तमस्याजन्म भवति ॥ १२॥ ___ ये त्वस्य कुक्षौ वृद्धिहेतुसमाख्याताभावास्तेषां विपर्ययादुदरे विनाशमापद्यतेऽथवाप्यचिरजातः स्यात् । यतस्तु कान्येन
अविनश्यन् विकृतिमापद्यते तदनुव्याख्यास्यामः। यदा स्त्रिया दोषप्रकोपणान्यासेवमानाया दोषाः प्रकुपिताः शरीरमुपसर्पन्तः शोणितगर्भाशयोपघातायोपपद्यन्तै, न च का न्येन शोणितएवं कालपरिणामात् कालेन परिपाकात्। स्वभावसं सिद्धेश्च। तदा तदा वृद्धिस्वभावसिद्धेः गर्भः कुक्षौ दृद्धि प्रामोति इति यच्चास्य वृद्धिहेतुरित्यस्य व्याख्यानम् । अथ यतश्चास्याजन्म भवति तद् व्याख्यायते। मात्रादीनामेव वित्यादि। मातापित्रात्मसात्माहाररससत्त्वानां गभेकराणां भावानां व्यापत्तिनिमित्तं दोषनिमित्तमस्य गर्भस्याजन्म न जन्म भवति ॥१२॥
गङ्गाधरः... अथ यतश्च जायमानः कुक्षावित्यादिना पूर्वपतिज्ञातं स्मरन्नाह-ये खस्येत्यादि। तद् यथा-यदेत्यादि। स्त्रिया वातादिदोषप्रकोपणान्यासेवमानायाः प्रकुपिता दोपाः शरीरमुपसर्पन्तः शोणिताशयगर्भाशययोरुपघातायोपपद्यन्ते तदा जायमानो गर्भ उदरे विनाशं प्राप्नोति, अथवा स गो चिरकालाज्जायते। इति। यतस्वित्यादि। तत्र दोषा यथा अण्डजानां पक्षरुपस्वेदनं वृद्धिकरं दृष्टम् । कालपरिणामादिति यथा यथा कालप्रकर्षः, तथा तथा वर्तते गर्भः। वृद्धिहेत्वन्तरमाह-स्वभावसंसिद्धेश्चेति, स्वभावेनैव कर्मजन्येन गर्भो भवति वर्द्धिष्णुरित्यर्थः। कर्मणा हि भोगलक्षणशरीरनिवर्तकेनारभ्यमाणं गर्भशरीरं वर्द्धिष्णुस्वभावमेवारब्धम्, तेन वर्द्धत एव ।।
"कुतश्चास्याजन्म भवति" इत्यस्योत्तरं-मात्रेत्यादि। व्यापत्तिनिमित्तमिति व्यापत्तिकारणम्, तत्र मातुाच्छोणितगर्भाशयादिदृष्टिः, पितुर्व्यापच्छुक्रदृष्टिरित्याद्यनुसरणीयम् ॥ १२॥
चक्रपाणिः-''यतश्च जायमानः" इत्यादिप्रश्नस्योत्तरम् -ये ह्यस्येत्यादि। वृद्धिहेतुसमाख्याता भावाः, "मात्रादीनान्तु खलु गर्भकराणां भावानां सम्पदः” इत्यादिग्रन्थोक्ताः। अथवाप्यचिरजात इति यदा मात्रादीनां सर्वथा दोषवत्त्वे विपर्ययोऽपि भवति, तदा विनाशमापद्यते गर्भः। यदा तेषां दोषवत्तायामसम्यगविपर्ययो भवति, तदा अचिरजातो व्यापद्यत इति ज्ञेयम् ।
अवशिष्टस्य प्रश्नस्योत्तरं दर्शमितुमाह-यतस्त्वित्यादि। अविनश्यन्नित्यत्र विनाशेन विकृतिः अभिप्रेता, विकृतावपि 'विनाश'शब्दो दृष्टः। यथा-असच्छीलत्वेन विकृते पुरुषे 'विनष्टोऽयम्'
For Private and Personal Use Only