________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९७२
चरक-संहिता। ( महतीगर्भावक्रान्तिशारीरम् दिवसातिक्रान्तेऽपि नवमं मासमुपादाय प्रसवकालमित्याहुरा द्वादशमासात् छ । एतावान् प्रसवकालः, वैकारिकमतः परं कुत्तो स्थानं गर्मस्य । एवमयमनयानुपूर्व्याभिनिवत्तते कुक्षौ ॥११॥ ___ मात्रादीनान्तु खलु गर्भकराणां भावानां सम्पदस्तथा वृत्तसौष्ठवान्मातृतश्चैवोपस्नेहोपस्वेदाभ्यां कालपरिणामात् दिवसातिक्रान्तेऽतीतेकदिने सति द्वितीय दिनमारभ्य नवममासमादाय प्रसवकाला आ द्वादशमासादित्याहुरिति। इह द्वादशशब्दः सम्पूर्णाष्टमं गणयिता यो द्वादशो भवति तत्र विवक्षितो, न पुनरेकदिवसातिक्रमेऽष्टमं पूर्ण मत्वा तदुत्तरं चतुर्थों मासो द्वादशः। एतावान् कालः प्रसवस्य प्रकृतः। अतः परं गर्भस्य कुक्षौ स्थानं स्थितिवैकारिकमिति। सुश्रुते हुक्तम्-नवमदशमैकादशद्वादशसु मासेषु प्रमूयतेऽतः परं वैकारिकमिति । एवमित्यादि। यया चानुपूा निव्वेत्तते कुक्षावित्यस्य व्याख्यानोपसंहारः ॥११॥
गङ्गाधरः-अथ यश्चास्य गर्भस्य कुक्षौ वृद्धिहेतु रित्यस्य व्याख्यानमाहमात्रादीनामित्यादि। गर्भकराणां भावानां मात्रादीनां मातापित्रात्मसात्म्याहाररससत्त्वानां सम्पदोऽवैगुण्यात् तथा मातु त्तसौष्ठवाद यथाविधिवर्तनात् मातृतश्चैवोपस्नहोपस्वेदाभ्यां मातुर्गर्भाशयर नेहेन यः स्नेहस्तथा तदुष्मणा यः स्वेदस्ताभ्यां स्नेहभावितभाण्डस्थस्य वस्तुनस्तत्रस्नेहोष्मभ्यामिव । न गणनया गर्भिण्यां प्रतिपादनीयम् । यदि हि गर्भिणी गण्यमानमष्टमं मासं गर्भजन्म व्यापत्ति करं शृणुयात्, ततो भीता स्मात्, तभयाच्च गर्भस्य वातक्षोभात् व्यापत् स्थादिति भावः । तसिनिति अष्टमे मासि। 'आ दशमाद' इति वचनं प्रशस्ततरप्रसवकालाभिप्रामेण। सुश्रुते द्वादशमासपर्यन्तं सम्यक् प्रसवकालाभिधानं स्तोकदोषयोरेकादशद्वादशमासयोरेवाल्पदोष. त्वेनादोषपक्ष एव निक्षेपाद बोद्धव्यम् । दत्तमुत्तरमुपसंहरति-एघमित्यादि ॥ ११ ॥
चक्रपाणिः-'यश्वास्य वृद्धिहेतुः' इति प्रश्नस्योत्तरं-मात्रादीनान्तु इत्यादि। 'आदि'ग्रहणात् पित्रात्मसात्म्यसत्वानि "मातृजश्चायं पितृजश्चायम्" इत्यादिग्रन्योक्तानि गृह्यन्ते। वृत्तस्य मातुराचाररूपस्य सौष्ठवं श्रेष्ठत्वं वृत्तसौष्ठवम्। 'मातृतः' इतिपदं वृत्तसौष्ठवेन तथा उपस्नेहोपस्वेदाभ्याञ्च सम्बध्यते । रससात्म्यसौष्ठवन्तु मात्रादिसम्पदा लब्धमेव। उपस्नेहो धातुनिष्पन्न. सम्बन्धः। उपस्वेदः शरीरस्योष्मणा परं गर्भस्य स्वेदनम् । उपस्वेदश्च गर्भवृद्धिकरो भवत्येव ।
* आ दशमासादिति चक्रवृतः पाठः ।
For Private and Personal Use Only