________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
शारीरस्थानम्।
१८५७ स्कृतिः सत्सेवनादाश्च धृत्यन्तैरुपलभ्यते। स्मृत्या स्वभावं भावानां स्मरन् दुःखात् प्रमुच्यते ॥४७॥ वक्ष्यन्ते कारणा यष्टौ स्मृतियाजायते। निमित्तक ग्रहणात् साश्यात् सविर्ययात् ॥
प्रवर्तते। तहि स्मृतेः उपस्थिति कैर्विज्ञायते इत्यन आह-स्मृतिरित्यादि । सत्सेवनादिधृत्यन्तै लिङ्गैः स्मृतिरस्योपस्थितोपलभ्यते । कम्नैणामनारम्भादीनि स्मृत्युपस्थितलिङ्गान्यपि नोपलब्धये प्रभवन्त्येकान्तेन। दुरात्मनां कर्मत्यागात् । कृतकम्मेसंक्षयस्तु परोक्षः। क्रोधादिनापि गृहानिष्कामन्ति । अनहङ्कारः स्वाभाविकच दृश्यते। लोकसमवाय ऽनकजः स्वभावान्न सह्यते। मनोबुद्धिसमाधानमतीन्द्रियवादज्ञ यम् । अर्थतत्त्वपरीक्षणश्च विद्वद्भिदृश्यते। बहुभिधाम्निस्तत्त्वं सेव्यत इति तस्माद्धन्यन्तै रित्युक्तम् । एवं स्मृत्या योगी भावानां स्वभावं खरूपं स्मरन् दुःखात् सुखदुःखोभयात्मकदुःखाजन्मनः प्राच्यतन भारत ॥४७॥
गङ्गावरः-ननु कुतः स्मृतिभवतीत्यत आह-वक्ष्यन्त इत्यादि। निमित्तग्रहणात् दृष्टश्रुतानुभूतपु स्मरणं भवति । यथायं मधुरं भाषते मम पुत्रोऽप्येव मिति दूरस्थं पुत्र स्मरात । तथा रूपग्रहणात् स्मरणं भवति दृष्टश्रुतानुभूतानाम् । यथायं सुन्दरस्तथा मे पुत्र इति स्मरति। सादृश्याद् दृष्टश्रतानुभूतानां स्मरणं भवति। यथा- यथायं ते गोस्तथा मे द्वौ गावो स्त इति स्मरति। सविपथ्येयादसादृश्याद् दृष्टश्रुतानुभूतानां स्मरणं भवति । यथेयं दुग्धवती ते
इत्यादिकस्मरणरूपतया स्मृतिः। अथ स्मृतिः कथं दुःखामोपे कारणमित्याह-स्मृत्येत्यादि । स्वभावमिति प्रत्यात्मनियतरूपम् । गुरुवचनादि प्रथमप्रतिपन्नमात्मादीनां रूपं परस्परभिन्न परस्परानुप कारकत्वेन व्यवस्थितं स्मरन न क्वचिदपि प्रवर्त्तते, अप्रवर्त्तमानश्च न दुःखेन प्रकृतिजन्येन युज्यत इत्यर्थः ॥ ४७ ॥
चक्रपाणि:-इदानी स्मृतिप्रस्तावात् स्मृतिकारणान्याह-वक्ष्यन्त इत्यादि। निमित्तग्रहणं कारणज्ञानम्. कारणं हि दृष्ट्वा कार्य स्मगति। रूपग्रहणमाकारग्रहणम्। यथा-वने गवयं हवा गां स्मरति। सादृश्यात् यथा-पितुः सदृशं पुरुपं दृष्ट्वा पितरं स्मरति । सविपर्ययादिति अत्यर्थवैसादृश्यादपि स्मरणं भवति । यथा--अत्यर्थकुरूपं दृष्ट्वा अत्यर्थसुरूपं स्मरति प्रत्ति
२३३
For Private and Personal Use Only